________________
562
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः दीपप्रतीतिः। साम्यादेस्स्यात्तु तद्धीः प्रवहणभिदुरास्सप्रभास्तत्प्रदीपाः निर्बाधा भास्करादौ प्रथयति नियतं प्रत्यभिज्ञास्थिरत्वम् ॥ ५८॥
सर्वार्थसिद्धिः यादिक्षणे पूर्वपूर्वदीपनाशो न स्यात् ; अनेकघटायुत्पत्तिनयायुगपदनेकदीपोपलब्धिस्स्यात् ; न चैवमस्ति ! निगमयति--साम्यादरिति । प्रभया सहोत्पत्तिपक्षेऽप्येवं दीपादेराशुतरविनाशित्वं सिद्धम् । यत्र तु सामग्रयनुवृत्त्यादिहेतुविरहः तत्र स्थिरत्वप्रसङ्गो न दोष इत्यभिप्रायेणाह–निर्वाधेति ॥५८॥
स्तिरास्थिरतेजो विभागः.
आनन्ददायिनी अनुमानान्तरव्याप्तिमित्यर्थः । पूर्वोत्पन्नदीपो द्वितीयादिकाले नष्टः उत्पन्नत्वे सति देशान्तरासत्त्वे सति योग्यत्वे सति द्वितीयादिप्रतीतिसमयेऽप्रतीयमानत्वात् यद्देशन्तरासत्त्वे सति योग्यत्वे सति द्वितीयादिकाले न प्रतयिते तत् तत्काले नष्टं तेजः प्रतीतिकाले नष्टं यथा तमः इत्यनुमानान्तरं द्रष्टव्यम् )ति प्रयोगे द्रष्टव्यः । साभ्यादेरित्यादिमूलस्य ; तद्धीःतदेवेति प्रत्यभिज्ञा साम्यात्-अत्यन्तसादृश्यात् स्यात् । तस्मात्उक्तहेतोः सप्रभाः प्रदीपाः प्रवहणभिदुराः प्रवाहवत् प्रतिक्षणभिन्ना इत्यर्थः ॥ ५८ ॥
स्थिरास्थिरतेजोविभागः