________________
570
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्तकलापे
'
ससाकलाप
जडद्रव्य
तत्वमुक्ताकलापः प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीप
सर्वार्थसिद्धिः इति । पक्षान्तरेषु तु प्रत्यभिज्ञा दुबांधेत्यत्राह-प्राच्ये इति । दाह्यविनाशानन्तरं वह्निनाश इति चरमदीपादिषु दृष्टम् । इष्टं च सर्वेषाम् । प्रतिक्षणं च दीपदशादिप्रक्षयो दीपादिषु प्रत्यक्षः। प्रयोगश्च प्राच्यस्नेहदशादिनाशः स्वानन्तरभाविस्वजनकदीपनाशवान् दीपारम्भकस्नेहादिनाशत्वात् अन्त्यवत् इति ।
आनन्ददायिनि प्रत्यक्षेणेत्यर्थः । पक्षान्तरे इति-अवयवविशरणानङ्गीकारात् उत्पाद(उत्पन्न)विनाशप्रत्यक्षस्य प्रत्यभिज्ञातोऽधिकत्वाभावात् विनाशित्वं न साधयतीत्यर्थः । दाह्यविनाशानन्तरमिति–दाह्यभूतदशाविनाशानन्तरं वहेर्दीपस्य विनाश इत्यर्थः । तथाचेदृशविशेषदर्शनबलाज्जात्यादिविषयतयाऽन्यथासिद्धा प्रत्यभिज्ञा न विरोधिनीत्यर्थः । दीपदशादीत्यादिपदेन तैलादिसंग्रहः । अनुमानतोऽपि विनाशस्सिध्यतीत्याहप्रयोगश्चेति । दिङ्मोहादिवत् प्रत्यभिज्ञा न बाधिकेति भावः । अन्त्यस्नेहादिनाशस्य सपक्षत्वात्तद्वारणाय--प्राच्य इति पक्षविशेषणम् । स्वानन्तरभावीति सिद्धसाधनवारणाय । स्वानन्तरभावित्वं च स्वोत्पत्त्यव्यवहितक्षणभावित्वम् । स्वजनकेति वामिसंयोग(दीपान्तर) नाशमादायार्थान्तरवारणाय दीपारम्भकेति । अदृष्टादिनाशे व्यभिचारवारणाय स्नेहेति । आदिशब्देन वर्तिनाशसंग्रहः । अन्त्यवदिति-अन्त्यस्नेहादिनाशवदित्यर्थः । दीप (भेदे नाशे) प्रत्यक्ष