SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ सरः आकाशादिनित्यविभुत्वसाधनानुवाइः हेतोरप्रवेजकतः श्रुतिवधश्च 525 तत्वमुक्ताकलापः कः स्याद्वाधो विपक्षे कथमिव निगमे बाधकेऽ सर्वार्थसिद्धिः सर्वदा निस्प(प्प)न्दत्वे सति महत्त्वात् सर्वदा स्पर्शरहितद्रव्यवादित्यादयः । निरवयवेन्द्रियग्राह्यगुणत्वादित्याकाशस्यैव : ज्ञानासमवायिसंयोगाधारत्वादिति मनस एव ; (एते) पां साधारणमप्रयोजकत्वमाभिप्रेत्याह-कः स्यादिति । न घेतेपामनित्यत्वादो किंचिदनिष्टं स्यात् ! स्वाच्छन्येनानिष्टकल्पने विपरीतकल्पनस्थापि शक्यत्वात् । अक्षोभ्यं दूपणान्तरमाह-कथमिवेति । येष्वनित्यत्वमविभुत्वं च सृष्टयादिवाक्य (दिवादे)स्तत्वा आनन्ददायिनी परिमाणविशेषः ; तथाच परिमाणत्वमेव गुणादौ व्यभिचारवारकमिति विशेप्यांशो व्यर्थ इति चेन्न ; महत्त्वस्य जातितया परिमाणत्वाघटिततया वैयोक्तययोगात् ; बहुत्वे साध्ये परमाणौ व्यभिचारवारकत्वाच्चेति भावः । सर्वदेति । निस्स्पन्दत्वं क्रियारहितत्वम् । कदाचित्रियारहिते घटादौ गुणादौ व्यभिचारवारणं विशेषणानां द्रष्टव्यम् । सर्वदेति । पूर्ववदेव विशेषणप्रयोजनं द्रष्टव्यम् । निरवयवेति । निरवयवेन्द्रियजन्यलौकिकप्रत्यक्षविषयगुणत्वादित्यर्थः । आकाशस्येति । आकाशपक्षकानुमानत्येत्यर्थः ; मनस्यसंभवादिति भावः । एवमुत्तरत्रापि । अप्रयोजकत्वमेवोपपादयति-न ह्येतेषामिति । ननु नित्यत्वाद्यनभ्युपगमे निरवयवत्वे सति महत्त्वादिकं न स्यादिति विपक्षे बाध इत्यत्राह--स्वाच्छन्द्येनेति । अप्रयोजकत्वेन तस्य प्रयोजकत्वाभाव उक्तः सत्यप्रयोजकव्यतिरेकापादन
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy