SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ सरः इहाकाशाइतिप्रतीतेरवाधः परस्यानिटं नादिशब्दन वन निवन्धनवान 515 . बर्वार्थसिद्धि मूर्ते वस्तुनि आकाशसंवन्ध इनि प्रतीता विरोधाभावात् । आवरणाभावधीरपि तथैव स्यादिति चन् । अस्त्वेवम् ; तथापि कदाचिदिह नारकेतिवत् निरधिकरणगणतयाग) गणत्ववद गोयलम्भ तदतिरिक्तनभस्मिद्धिनिषेधः। आवरणेषु निरवकाशत्वं च विशपणराहित्यात् । आवरणरहितमेव ह्याकाशमन्यद्वा किञ्चिदरकाशः: न त्वाकाशमात्रम् । आवरणेष्वविद्यमानतया तदभाव आकाश इतिचायुक्तम् ; सर्वेषां स्वस्मिन्नविद्यमानतया स्वाभावत्वप्रसङ्गात् । यत्तु व्योमादिशब्दा व्यामोहेकनिवन्धना इति; तदसन् । प्रमाणसिद्धे क्वचिद्वस्तुन्येव सर्वशब्दानां व्युत्पत्तेः । तद्विपयत आनन्ददायिनी आवरणाभावेति-तत्रापि मूर्तवस्तुनि सम्बन्धधीरस्यादित्यर्थः । तथापीति-यथेह तारकेति धीस्तथा कदाचिदाकाशे तारकेति धीः । तथा च आकाशस्याधिकरणप्रतीतिनियमाभावादभावात्मकत्वे तदयोगान्निरधिकरणतया प्रतीयमानम्यावरणा(मानस्याकाशा)भावातिरिक्तत्वेन सिद्धौ तदतिरिक्तनभोनिषेधम्सम्भवति त्वत्पक्षे तु न संभवतीत्यर्थः । नन्वावरणाभावातिरिक्तत्वे आकाशस्य आवरणे सत्यपि सत्त्वात् तत्र तदभा(तदाकाशाभा)वो न स्यात् तस्यैवाकाशत्वादियुक्तत्वादित्यत्राहअवरणेप्विति । आकाश सत्त्वेऽपि नाकाशमात्रमवकाशः ; अपि तु आवरणाभावविशिष्टमि(ष्टम् ; तत्र विशिष्टं नास्ती)त्यर्थः । सर्वेषामिति--ननु आवरणेष्वविद्यमानतयेत्यत्र आवरणेषु सत्सु अविद्यमानतयेत्यर्थः । तथाच न सर्वेषां स्वाभावत्वप्रसङ्गः; स्वस्मिन्नसत्त्वेऽपि स्वाधिकरणे सत्त्वादिति चेत् ; न; गोत्वाश्वत्वयोः परस्पराभावत्वप्रसङ्गात् । नच भावान्तराभाववादे इष्टप्रसङ्गः इति चेन्न ; पीतत्वशङ्खत्वयोर्व्यभिचारात् । 33*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy