________________
सरः)
आकाशदयावकाशाख्यद्रव्यान्तरनिरासः
507
तत्वमुक्ताकलापः यत्ताकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र याऽसावन्योन्य(न्यं)स्पर्शभाजां विहतिरिह न सा
सर्वार्थसिद्धिः ननु शरीरादिष्वाकाशोऽवकाशदानेन उपकरोतीति तत्तच्छास्त्रासद्धम् । अतोऽस्य निष्क्रमणादिलिङ्गत्वं ग्राह्यम् ; तदिदमनुभाषते—यत्त्विति । शास्त्राभिप्रेतमस्योपकारकत्वं शिक्षयति-तत्रेति । पृथिव्यादिचतुष्कस्येव स्पर्शवत्प्रतिघातित्वमाकाशस्य नास्ति, तत्पूर्वेषामिवाहङ्कारादितत्वानाम् । अतः प्राणिसंचारादिप्रतिघातकत्वाभावादस्योपकारकत्वकथनमिति तात्पर्य निपुणनिरूपणीयम् । न ह्याकाशेन देयमवकाशाख्यं द्रव्यान्तर
आनन्ददायिनी पूर्वाक्षेपेण संगतिमाह-नन्विति । शास्त्रेति ।
शरीरेप्ववकाशं च नभः कुर्यात्तथा परः । इति शास्त्रसिद्धमित्यर्थः । अतोऽस्य निष्क्रमणादीति । (ननु) आकाशस्य शास्त्रसिद्धत्वात् कथं निष्क्रमणादिलिङ्गत्वमिति चेत् ; न ; निष्क्रमणादिलिङ्गत्वं निष्क्रमणादिकारणत्वमेवेत्यर्थः । पृथिव्यादीति । तथा च प्रतिघातकत्वाभावमात्रान्न तद्धेतुत्वमित्यर्थः । नन्ववकाशाख्यस्य कस्यचिद्र्व्यस्य तद्धेतुत्वे तद्वारा तद्धेतृत्वमाकाशस्यास्तु इत्यत्राहन ह्याकाशेनेति । नन्ववकाश इत्याकाशादिदेयद्रव्यान्तरं माऽस्तु, तथाऽपि तस्य निष्क्रमणादिहेतुत्वमवश्यं वाच्यम् । तथाच आकाश एवावकाशोऽस्तु ; तथा (एवं)च आकाशस्य निष्क्रमणलिङ्गकत्वं युक्तमित्यत्राह