________________
494
सव्याख्यसवाथासाद्धसाह्ततत्वमुताकलाप
[जद्रव्य
तत्वमुक्ताकलापः प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षुषैवा
सर्वार्थसिद्धिः नित्यविभुत्वात्तदाश्रितत्वाद्वा श्रोत्रेण नित्यसंबन्ध इति वादस्तु अद्रव्यसरे निरसिष्यते ॥४१॥
श्रोत्रवृत्ति शब्दाश्रयागमनपक्षी
इन्द्रियचिन्तानन्तरं भूतचिन्ताप्राप्तौ प्रथममाकाशे चार्वाकैरपि संमन्तव्यं प्रमाणविशेष पुरस्करोति-प्रत्यक्षामिति । कथमित्यत्राह-नीलमिति । धूम्नादेरुपलक्षणमेतत् । आरोपितं नभसि तलत्वादिवन्मलिनत्वादिकमिति चेत् ; असावारोपश्चाक्षुषोऽन्यो वा ? आये अधिष्ठानमपि चाक्षुषमेष्टव्यम् । अन्यथातिप्रसङ्गात् । द्वितीयस्त्वसंभवी निमीलिताक्षस्य तादृशारोपादृष्टेः । अत एव
आनन्ददायिनी अवसरसंगतिं दर्शयति-इन्द्रियेति । भूतोत्पत्तिक्रमे आकाशस्य प्राथम्यात् (प्राधान्यादाकाशस्य) तन्निरूपणे कर्तव्ये तत्र निरूपणस्य लक्षणप्रमाणाधीनत्वात् धर्मिसाधकं प्रमाणमाहेत्यर्थः । चार्वाकैरपीतितस्य प्रत्यक्षमात्र(क्षेत्र) प्रमाणवादित्वादिति भावः । तलत्वं(कठिन)कार्यदेशत्वम् । अन्यथेति--अधिष्ठानस्य चाक्षुषत्वाभावेऽपि चाक्षुषरूपाद्यारोपे ह्या (रोपआ)त्मादावपि तथाऽऽरोपप्रसङ्गादिति भावः । असंभवीति-- चक्षुर्व्यापारनिरपेक्षो न सम्भवतीत्यर्थः । तदवोपपादयति-निमीलितेति। अत एवेति-अचाक्षुषे चाक्षुषारोपासम्भवादित्यर्थः । किञ्च नीलधियो