________________
492
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
आप
[जडद्रव्य
तत्वमुक्ताकलापः अनुमितिमप्याहुरस्मिन् दिगादेः ॥ १३ ॥
सर्वार्थसिद्धिः नन्वेवं दिगादिविशिष्टोपलम्भःकथमित्यत्राह-अनुमितिमिति । आदिशब्देन दूरासन्नत्वग्रहः दृष्टान्तप्रदर्शनं च ॥
यथा मयूरवीणादेशशब्दोऽयमिति गृह्यते । तथा प्राच्यादिजातोऽयमिति लिङ्गात्तथाविधात् ।। तत्र यद्यपि शब्दस्य विशेषः कोऽपि दुर्वचः।
तथाऽपि विदितस्तैस्तैः लिङ्गं स्यात्संमतेष्विव ॥ नन्विमौ द्वावपि पक्षौ हाठिकौ; पूर्वत्र दिगादिषु श्रोत्रस्य शक्तिकल्पनागौरवात् उत्तरत्र दुवैचलिङ्गदर्शनक्लप्तेरिति ; हन्त ! एवं वदन् किं शब्दग्रहे दिगादिग्रहणमेव नास्तीति मन्यते ?
आनन्ददायिनी (उत्पद्यत इत्यर्थः) स्सम्भवतीति भावः । नन्वस्मिन् पक्षेऽपि तत्तद्देशविशिष्टशब्दग्रहो न स्यादित्याशङ्कते--नन्विति । ननु अस्मिन्पक्षे मयूरवीणादिशब्दविशेषग्रहेऽपि सामर्थ्य श्रोत्रस्य कल्प्यताम् तथाच नायं दृष्टान्तः ; अन्यथा तत्र तत्तत्प्रतिनियतविशेषस्याभावादानुमानिकत्वानुपपत्तेरित्यत्राह-यद्यपीति । विशेषस्य शब्दे (दुर्वचत्वेऽपि) दुरभिलपत्वेऽपि तैस्तैः पुरुषैर्विदितोनुभवसिद्धस्संमतेष्विव---इक्षुक्षीरादिमाधुर्येष्विव विशेषो लिङ्गं भवत्वित्यर्थः ; अन्यथा इक्षुक्षीरादिमाधुर्येष्वपि विशेषो न स्यादिति भावः । हाठिकौ-हठात्सिद्धौ-- आपातसिद्धाविति यावत् । अध्यात्मादित्वाट्ठञ् । ननु शब्दग्राह