________________
484
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः योग्यक्षणादयोग्यक्षणोत्पत्तौ कारणक्षणस्य सर्वैरदृष्टस्तत्तत्स्वरूपातिरिक्तश्शक्तिभेदो वा सहकारिभेदो वा कल्प्यः । उभयपि स्वमतबाधकम् । दृष्टं छादकमेवायोग्यक्षणोत्पादनसहकारीति चेन्न ; अपसिद्धान्तात् । छादकस्य किञ्चित्करत्वानपायात् । तोयादिव्यवहितेऽप्यग्रह(ण)प्रसङ्गात् । छन्नस्य च सर्वादृश्यत्वप्रसङ्गात् । नेत्रसन्नि(हितेन)कृष्टेन पक्ष्मकरतलादिना दवीयस्तरदिवाकरक्षणोत्पत्तेरत्यन्तम (रत्य) द्भुतत्वाच्च ; तस्मादस्मदुक्तमेव (छादक)साफल्यम् । उक्तातिप्रसङ्गस्सांख्यादिपक्षेऽपि समः । यदि
आनन्ददायिनी भ्युपगमः । योग्यक्षणादिति-अव्यवधानस्थले योग्यकारणक्षणस्य योग्यक्षणोत्पादकत्वस्यैव दर्शनात् व्यवहितस्थले शक्तिवैलक्षण्यं कल्प्यमित्यर्थः । ननु तत्र क्षणस्वरूपमेव हेतुरस्तु न तदतिरिक्तशक्तिकल्पनेति चेन्न ; वैजात्यस्यावश्यकल्प्यत्वात् ; अन्यथा घटादि(घटाधार)(अन्याधार)क्षणस्यान्य(स्यपटादि)क्षणोत्पादकतापातात् । स्वमतबाधकमिति-स्वरूपातिरिक्तशक्तिभेदाङ्गीकारे धर्मधर्मिभावभेदरहितस्वमतबाधः । सहकार्यङ्गीकारे च सहकारिणा सहकार्ये किञ्चित्कार उत्पद्यते न वेत्यादिविकल्पने (ल्पिते) न सहकारिनिरासात् स्वमते तद्बाध इत्यर्थः । केचित्तु इन्द्रियाणां प्राप्तिकल्पने गौरवादिति स्वापादितमतस्य बाधकमि (त्यर्थः) त्याहुः । ननु कल्प्यत्वे गौरवं किंतु दृष्टमेवाङ्गीक्रियते इत्याशङ्कते-दृष्टं छादकमेवेति । अपसिद्धान्तमेवोपपादयति-छादकस्येति । तोयादीति-तत्रापि छादकसहकारिणा योग्यताशून्य (स्यक्षण) स्योत्पत्तेरिति भावः । अत्यन्तमितिकारणानां कार्यदेशसन्निहितानामेव जनकत्वात् अन्यथाऽतिप्रसङ्गादिति भावः । प्रागुपक्षिप्तं परोक्तं प्राप्तिप्रकारं दूषयति-उक्तातिप्रसङ्ग इति ।