________________
468
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
वादाच्च | आदिशब्देन देहान्तरावातिगत्यागतिसंग्रहः । न चैतेषां aagri विशेषतो दृश्यते । तथा सति श्रोत्रादीनामनेकाधिष्ठानवर्तित्वं स्पर्शनरसनयोश्च पृथुप्रदेशव्यापित्वं न स्यात् । सिद्धेऽपित्वे विकासशक्तया वृत्तिविशेषद्वाराऽऽप्यायकप्रचयाद्वा पृथुत्वमङ्गीकार्यम् । अन्यथा पिपीलिकादिशरीरस्थस्य स्पर्शनस्य गजादिशरीरप्रवेशे तादृशपृथुत्वासिद्धिप्रसङ्गात् । गजादिभ्यः कीटादिशरीरप्रवेशे तु तादृशस्संकोचः । मनसस्तु परमाणुत्वेऽपि सद्वारकविषयसंबन्धसिद्धेरविरोधः । तत्र 'युगपत् ज्ञानानुत्पत्ति
आनन्ददायिनी
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥
इति स्मृति: । सर्वोपकरणाधिष्ठातृत्वाज्जीवोऽत्रेश्वरः । ननु 'अणवश्व' इति, सूत्रस्वारस्यात् मध्यमपरिमाण (स्वे) साधकाभावादणुत्वमित्यत्राह तथा सतति । ननु अधिष्ठानस्यानेकत्वे चक्षुश्श्रोत्रयोरप्यनेकत्वमस्त्वित्यत्रहस्पर्शनरसनयोश्चेति । जीववदणुत्वा (मध्यमपरिमाणान) ङ्गीकारे गौरवदोषं चाह -- सिद्धेऽपीति । अणुत्वपक्षे दूरस्थवस्तु (दूरस्थद्रव्यशब्द) ग्रहार्थं व्यापिस्पर्शरसग्रहार्थं च संकोच विकासादिरूप (साई) वृत्तिसाधकानामि - न्द्रियाणां प्रचयः संघातो वाच्यः ; तथा च अणुरूपोन्द्रियाणि तेषा - मणूनां विकासासंभवाद्विकासवृत्तिमद्दव्यं च किञ्चित् संघीभावार्थं - (संघीभूतं) चक्षुरादीनामेकस्मिन्नेव शरीरे बाहुल्यं च कल्प्यमिति गौरवम् । (इन्द्रियाणां ) मध्यमपरिमाणत्वे (तु) तेषामेव तादृशवृत्तिविशेषोऽङ्गीकर्तुं शक्य इति (विशेषार्हत्वात् ) लाघवमिति भावः । अन्यथा — परमाणुत्वाङ्गीकारे । मनसस्त्विति - अपिशब्देन इन्द्रियत्वसाधर्म्येण मध्यमपरि