________________
466
सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे
[जडद्व्य
सर्वार्थसिद्धिः तदेतत्सर्वमात्माणुत्ववादिनं प्रति न शोभते । ज्ञानासमवायिसंयोगाधारत्वं च आत्ममनसोरसिद्धं ; ज्ञाननित्यत्वस्य साधयिष्यमाणत्वात् । नित्यत्वे सति द्रव्यानारम्भकद्रव्यत्वादित्येतचोत्पत्तिश्रुत्या अपहृतविशेषणम् । द्रव्यानारम्भकत्वं च भवतामवयव्यनारम्भकत्वम् । तच्चास्माकमणुष्वपि विद्यते । यदपि-सर्वदा विशेषगुणशून्यद्रव्यत्वात् कालवदिति ; असिद्धमिदमौपनिषदानाम् त्रिगुणद्रव्ये मनसि सत्वादिविशेषगुणसंमतेः। दूरस्थस्मृत्या मनोविभुत्वं कल्प्यमिति चेन्न; अनुभवसंस्कारप्रत्यासत्त्यैव तदुपपत्तेः। एवमन्यदपि । तदिहैकादशानां 'अणवश्व' इति
आनन्ददायिनी चार इत्याह-तदेतत्सर्वमिति । द्वितीयस्य स्वरूपासिद्धिरपीत्याह-ज्ञानेति । तत्र हेतुमाह-ज्ञाननित्यत्वस्येति । तृतीयस्यापि विशेषणासिद्धया स्वरूपासिद्धिमाह -नित्यत्वे सतीति । तच्चास्माकमिति--तथा च तत्र व्यभिचार इति भावः । आदिशब्दोपात्तमनुमानम नुवदति-यदपीति । सर्वदेति-आद्यक्षणे व्यभिचारवारणाय सर्वदेति । असिद्धत्ववारणायविशेषेति । गुणादौ व्यभिचारवारणाय द्रव्यत्वादितीति विशेषणप्रयोजनं द्रष्टव्यम् । दूरस्थेति-अविभुत्वे संबन्धाभावत् स्मरणं न स्यादिति तर्कबाध इति भावः । यद्यपि शाब्दानुमित्यादिवत् संबन्धो नापेक्ष्यः ; तथाऽप्यभ्युपगम्याप्याह--(नेति) अनुभवेति । तदेवाह-अन्यदपीति । अणुत्वपक्षेऽपि आत्मनोऽण्यणुत्वात् तद्गतानुभवसंस्कारयोरपि देशान्तरस्थेन संबन्धाभावात्तत्संबन्धानुपपत्तेः पूर्वदोषतादवस्थ्यमित्यादिदूषणं परिहर्तव्यमित्यर्थः । फरिहारस्तु विभुत्वपक्षेऽप्यतीतादिस्मरणवदिदमुपपन्नमिति ।