SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ सरः] इन्द्रियभौतिकत्व परोक्तहेतुस्वरूपविकल्येन प्रथम साधारण्यदोषोद्धावनम् +35 तत्वमुक्ताकलापः तत्साहाय्यं त्वसिद्ध; सर्वार्थसिद्धिः उद्विग्नो ह्यन्धकारण कश्चिदेवं ब्रवीत्यपि । किं चक्षुषा ममैतेन? दृष्टं दीपेन यन्मया ॥ इति दीपादिषु साधकतमत्वं कश्चिद्र्यात् । अतस्सपक्षवृत्तेर्हेताः कथमसाधारणत्वम् ! इत्थं; आलोकेन विनाऽपि जन्तुभेदेषु चक्षुषो रूपादिग्राहकत्वं सिद्धम् । अन्धकार च मनुष्यादीनां तत्वतोऽन्यथा वा । अतः ईदृशं प्राधान्यमपेक्ष्य इन्द्रियेषु करणत्वं दीपादिषु सहकारित्वं च प्रख्यातमनुरुध्य विकल्प प्रवृत्तेरविरोधः। कोट्यन्तरं दूषयति-तत्साहाय्यं त्वसिद्धमिति । आनन्ददायिनी अन्धकारणोद्विग्नः-भीतः । साधकतमत्वं--करणत्वम्। कश्चित् इत्य. नेन लौकिकव्यवहा(र विरहम्सूच्यते)रापरिज्ञानादिरुच्यते । सपक्षवृत्तेरिति-दीपादीनां सपक्षत्वमिति भावः । किं दीपादीनां रूपादिसाक्षात्कारमात्रे करणत्वम् ? उत मनुष्यकर्तृकरूपादिसाक्षात्कारे इति विकल्पमभिप्रेत्य आये दूषणमाह-आलोकेन विनापीति । द्वितीये दूषणमाह-अन्धकारे चेति । ननु तर्हि व्यभिचारादीपादेस्सहकारितापि न स्यात् । यदि तद्विशेष विशदज्ञानादौ सहकारिता ; तत्र करणताऽप्यस्त्वित्यत्राह-ईदृशेति । रूपोपलब्धिमात्रे चक्षुषों यस्मिन् सति भवत्येवेति रूपं प्राधान्यमभिप्रेत्येत्यर्थः । न च विशदज्ञानं प्रत्यपि करणत्वम् ; अन्यत्र क्लप्तचक्षुष एव करणस्य सत्त्वेन सहकारितामात्रत्वात् ? अन्यथा गौरवात् । कोट्यन्तरमिति-सहकारित्व 28*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy