________________
384
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः तथाहि-क्षणिकत्वं नाम क्षणसंभवत्वं वा? क्षणकालसम्बन्धित्वं वा; क्षणमात्रवर्तित्वं वा ? क्षणद्वयसम्बन्धशून्यत्वं वा? क्षणकालत्वं वा? तदुपाधित्वं वा? नाद्यः; सिद्धसाधनात् । स्थिरमपि(हि) नस्सामग्रथा क्षणे सम्भव (ती)ति। न द्वितीयः; तत एव । कालमेवानिच्छतस्ते कोऽसौ क्षणकालः? कश्च तत्सम्बन्धः ? तदभ्युपगमे सिद्धान्तबाधः । अत एव न तृतीयोऽपि । प्रत्यभि
आनन्ददायिनी बाधो न प्रदर्श्यत इति बाधबहुत्वोपपादनार्थ साध्यविकल्प इति न संगच्छत इति मन्दधियां प्रतिभाति ; तथाऽपि सर्वविकल्पकोटिष्वपि बाधप्रदर्शनं न प्रतिज्ञार्थः । किंतु विकल्पितकोटिषु यथासम्भवं तत्प्रदर्शनं प्रतिज्ञार्थ इति द्रष्टव्यम् । क्षणिकत्वं नामेति-क्षणे भवः क्षणे जातः क्षणोऽस्यास्तीत्यर्थविवक्षायां कुमुदादित्वात् ठच् । अत इनिठनाविति वा ठनि क्षणिकशब्दस्य निष्पत्तेः । विनयादित्वाद्वा स्वार्थिकठकि संज्ञापूर्वकपरिभाषया वृद्धयभावाद्वा व्युत्पत्तिसम्भवात् अवधारणविवक्षातदभावाद्यार्थिकार्थविवक्षानुसारेण विकल्पसम्भवात् नास म्भावितविकल्पदोष इति द्रष्टव्यं । तत एवेति-स्थिरस्यापि सामग्री. क्षणे सम्बन्धसम्भवेन सिद्धसाधनादित्यर्थः । व्याप्तिग्राहकाभावाद्वयाप्यत्वासिद्धिरिति चाह-कालमेवेति । सिद्धान्तबाधः-अपसिद्धान्तः । 'निराधारा निर्धर्मकाश्च रूपादयश्चत्वारः पदार्थाः' ।
वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः । शब्दात्मानश्चतुर्वेव केचिदित्यपरेऽब्रुवन् ॥
इति परिगणनेन कालानङ्गीकारादिति भावः । अतएव-- अपसिद्धान्तादिप्रसङ्गादेव । अक्षणिकत्वे सत्त्वं न स्यादिति तदीयतर्कस्य