________________
सरः
परमते व्याप्तिग्रहसामान्यायोगः
367
भावप्रकाशः सामान्यस्य प्रतिषेधहेतुत्वाभिधानपूर्वकं एकादशविधानुपलब्ध्यन्तर्गतव्यापकानुपलब्धेः 'व्यापकानुपलब्धिर्यथा नात्र शिंशपा वृक्षाभावादिति' इति प्रतिषेधोदाहरणमुक्तं । एवं च 'व्यापकानुपलम्भात्मना विपर्ययबाधकप्रमाणेन व्याप्तेस्साधनात्' इत्युपक्रम्य 'ननु व्यापकानुपलब्धिारति यद्यनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वं अवस्तुत्वात् । नचान्योपलब्धिापकानुपब्धिराभिधातुं शक्या! भूतलादिवत् अन्यस्य कस्यचिदनुपलब्धोरति चेत् ; तदसङ्गतं ; धर्म्युपलब्धेरेवान्यत्राप्यनुपलब्धितया व्यवस्थापनात् । यथा नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षया केवलप्रदेशस्य धर्मिण उपलब्धिदृश्यानुपलब्धिः । शिशपापेक्षया च केवलप्रदेशस्य धर्मिण उपलब्धिरेव शिंशपाभावोपलब्धिरिति स्वभावहेतुपर्यवसायिव्यापारो व्यापकानुपलम्भः । तथाहि नित्यस्य धर्मिणो विकल्पबुद्धयवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणमेव क्रमिकारित्वाक्रमिकारित्वानुपलम्भः अर्थक्रियापेक्षया च । केवलप्रतीतिरेवार्थक्रियावियोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः । इति रत्नकीर्तिना व्यापकानुपलब्धेः स्वभावहेतुपर्यवसायित्वाभिधानक्लेशोऽनुचितः । स्वभावहेतुना यत्सत् तत् क्षणिकामति व्याप्तिसिद्धौ व्यापकानुपलम्भप्रमाणसामञ्जस्यार्थं विफलबहुतरपारक्लेशस्यानुचितत्वात् । व्यतिरेकस्य प्रमाणसिद्धता यत्र तत्रैव व्यतिरेकेणान्वयगतेस्संभवदुक्तिकत्वात् । एतत्तात्पर्येणैव तत्वसंग्रहकृताऽस्य प्रसङ्गहेतुत्वाभिधानं । न च तदपि संभवति ! भवदुक्तदोषादेव । उक्तदिशा असपक्षेऽसत्त्वानिश्चयासंभवेन हेतोस्त्रिरूपत्वासंभवाच्च । अत एव केवलान्वयिनीदं रूपं त्यज्यते नैयायिकैः । स्वभावहेतोरसंभवश्च न्यायपारशुद्धावुक्तः । कथं च तादाम्ये लिङ्गलिङ्गिभावः। तथात्वेन वा भेदे कथं तत् । यदि च शिंशपात्ववृक्षत्वयोरक्यं ; सर्वोऽपि वृक्षशिशपैव स्यात् न वा