SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सर:] परमते व्याप्तिग्रहसामान्यायोगः 365 भावप्रकाशः क्वाप्यस्ति चेत् ; कथामियन्ति न दूषणानि ? नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः ॥' इत्यारभ्य अक्षणिकस्याभावे सन्देहे वाऽवस्तुधर्मेण धर्मित्वमव्याहतमित्युक्त। एवं 'वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्धिः । तयोरभावे नियमेनाश्रयासिद्धिरिति युक्तम् । असत्तासाधने त्ववस्तुधर्मों हेतुरवस्तुनि विकल्पमात्रसिद्ध धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः । तथाऽक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधस्सिध्यत्येव । तथा विकल्पादेवाक्षणिको विरोधी सिद्धः । विकल्पोल्लिखितश्चास्य स्वभावो नापर इत्यपि व्यवहर्तव्यं । अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तं तत्स्वरूपस्यानुल्लेखादित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः । अस्ति च ; अतो यथा प्रमाणाभावेऽपि विकल्पसत्त्वस्य वन्ध्यासुतादेस्सौन्दर्यादिनिषेधोऽनुरूपः; तथा विकल्पोपनीतस्यैवाक्षणिकस्वरूपस्य तत्प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषस्स्यात् ? यदि चाक्षणिकानुभवाभावाद्विरोधप्रतिषेधः तर्हि वन्ध्यापुत्राद्यननुभवादेव सौन्दर्यादिनिषेधोऽपि मा भूत् । नन्वेवं विरोधस्यापारमार्थिकत्वं; तबारेण क्षणभङ्गसिद्धिरप्यपारमार्थिकी स्यादिति चेत् ; न हि विरोधो नाम वस्त्वन्तरं किञ्चित् उभयकोटिदत्तपादं संबद्धाभिधानमिष्यतेऽस्माभिरुपपद्यते वा! येनैकसंबन्धिनो वस्तुत्वाभावेऽपारमार्थिकस्स्यात् । यथा त्विष्यते तथा पारमार्थिक एव । विरुद्धाभिमतयोरन्योन्यस्वरूपपरिहारमात्रं विरोधार्थः । तच्च भावाभावयोः पारमार्थिकमेव । न भावोऽभावरूपमाविशति । नाप्यभावो भावरूपं प्रविशतीति योऽयमनयोरसङ्करनियमः स एव पारमार्थिको विरोधः । कालान्तरैकरूपतया हि नित्यत्वम् ! । क्रमाक्रमौ क्षणद्वयोऽपि भिन्नरूपतया । ततो नित्यत्वक्रमाक्रमिकार्यकारकत्वयोर्भावाभाववद्वि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy