________________
347
सरः ]
स्वभावत्वानुपपत्तिपरिहारः तत्र परसम्मतिश्च
सर्वार्थासिद्धिः
इति चेन्न ; स्वहेतुसापेक्षत्ववदुपपत्तेः । 'अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ कारणमिति युष्मदुक्तिआनन्ददायिनी
स्वहेत्विति — कुर्वत्स्वभाव (स्व) लक्षणस्यापि स्वहेतुपरसापेक्षतया स्वभावत्वाभावप्रसङ्गादिति भावः ननु क्षणानां हेतुसापेक्षत्वमेव नास्तीत्यत आह—– अधिपतीति --- अधिपतिरिन्द्रियं चक्षुरादि । प्रतीयते अनेनेति प्रत्ययः - कारणं । उदितस्य ज्ञानस्य रसादिभावप्रकाशः
नन्तपदार्थानां चक्षुषी निर्माल्य कल्पनं स्यादिति । एवमनङ्गीकारेचतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः । द्वाभ्यामन्ये तु जायन्ते
11
इति भवदीयवचनविरोध इत्यभिप्रेत्य तत्र चतुर्भिरिति सामान्येनोक्तया चत्वारः प्रत्यया हेतुरालम्बनमनन्तरम् । तथैवाधिपतेयं च
11
इति तदर्थपरिज्ञानाय भाष्योक्तवाक्यमादत्ते - * ' अधिपतीत्यादि । ननु अधिपत्यादीनां चतुर्णां तन्मते पूर्वं (५७ पृ) भिन्नधर्मप्रयोजकत्वाभिधानेन नानुपपत्तिरिति चेन्न ; तन्मते धर्मधर्मिणोरभेदेन विज्ञानक्षणगतधर्माणां विज्ञानाभिन्नतया दोषो दुर्वारः, तथाहि – एकस्य अधिपत्यादिचतुष्टयसन्निधानेन ज्ञानोत्पत्तिकाले तद्विकलस्यान्यस्यालम्बनादिमात्रेण ज्ञानं नोदेतीत्यविवादं । एवं च आलम्बनप्रत्ययश्शक्तश्चेत् विज्ञानं तस्यापि जनयेत् न च तस्य जनयति इति प्रसङ्गतद्विपर्ययाभ्यां विज्ञानक्षण एको न स्यात् इति मिलितानां कारणत्वाङ्गीकारेण परिहारोऽपि तुल्य एवेति भावः ॥