SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सरः] स्वभावद्वय सामानाधिकरण्यशङ्का तत्परिहारः स्वभावत्वानुपपत्तिशङ्काच 345 सर्वार्थसिद्धिः कथं सहकारिभिरपि कुर्वत्ता ? कुर्वत्स्वभावस्य वा कथं तद्विरहात्तदभावः इति चेन्न ; * सहकारिसन्निधौ कुर्वत्तया तदभावे आनन्ददायिनी सहकारिसन्निधाविति दर्शनादित्यर्थः । । भावप्रकाशः अन्योन्यानुपकारेऽपि नाविशिष्टा इमे यतः । स्वोपादानबलोद्भूताः कलापोत्पादकाः पृथक् ॥ ४३६ ॥ इति । अत्र पञ्चिका समर्थादेव हि कार्योत्पत्तिः ! न च सहकारिवैयर्थ्यं ; तथाहि–द्विविधं सहकारित्वं एकार्थक्रियाकारितया परस्परोपकारितया च । तत्र (अ) व्यवहितकार्यापेक्षया एकार्थक्रियाकारित्वमेव न परस्परोपकारित्वं एकस्मिन् क्षणे निर्विभागतया विशेषस्याधातुमश क्यत्वात् । व्यवहितकार्यापेक्षया तु परस्परत उत्तरविशिष्टक्षणोत्पत्तेः । सन्तानापेक्षया परस्परोपकारेण व्यवहितकार्यजनकत्वात् परस्परोपकारित्वलक्षणं सहकारित्वं । तत्र प्रथमावस्थाभाविनां यद्यपि परस्परतो विशेषो नास्ति ; तथाऽपि तेषां सहकारित्वमविरुद्धमेव एकार्थक्रियाकारित्वात् । नापि ते समनन्तरविशिष्टक्षणोत्पादनं प्रत्यविशिष्टाः ; पूर्वकेभ्य एव स्वहेतुप्रत्ययेभ्यः तथाविधोत्तरकार्यकलापोत्पादनं प्रति प्रत्येकं समर्थानामुत्पन्नत्वात् । तेषामपि हेतुप्रत्ययानामपरेभ्यस्स्वहेतुप्रत्ययेभ्यः तेषा - मप्यपरेभ्य इति अनादेर्हेतुपरम्पराया इष्टत्वादनवस्थाऽप्यदुष्टैव । प्रत्येकं च सामर्थ्येाप नापरेषां वैयर्थ्यं; स्वहेतुबलेन तेषां तथोत्पन्नत्वात् । नापि तेषां पृथग्भावस्संभवति ; तथाविधकारणाभावात् । नापि पश्चात् क्षणिकत्वात् इति । एवं सति स्थिरत्वपक्षेऽपि नानुपपत्तिरिति भावेनाह* सहकारिसन्निधावित्यादि । अयमाशयः - - निर्व्यापारस्य कारणत्वं
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy