SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ 340 संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप जडद्रव्यं सर्वार्थसिद्धिः । स्मृतिदर्शनात् इति वदन्तोऽपि निरस्ताः। एवं प्रत्यभिज्ञा स्थिरविषयेति सिद्धे सोऽहमिति धीश्चात्मनः स्थिरत्वमुल्लेढि । तदहं स्मरामीति स्मृतिमात्रेण चैतत्सिद्धम् । ननु विरुद्धानुपहित आनन्ददायिनी बाह्यार्थे स्थैर्य साधयित्वा आत्मनोऽपि स्थैर्य साधयति-एवमिति । भावप्रकाशः इति नैव प्रवृत्तिस्स्यात् न च वेदप्रमाणता । जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥ ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् । अहम्प्रत्ययविज्ञेयः स्वयमात्मोपपाद्यते ।। यदि स्याज्ज्ञानमात्रं च क्षणिकं ज्ञातृ तत्र वः । न भवेत् प्रत्यभिज्ञानं पूर्वज्ञातरि संप्रति ॥ इति सिद्धान्ते । अत्र आत्मनो ज्ञानमात्रखरूपत्वे क्षणिकत्वे च दोषकथनपूर्वकं अहम्प्रत्ययगम्यत्वं ज्ञातृत्वं नित्यत्वं च यद्यभ्युपगम्यते तदैव प्रवृत्त्युपपत्तिः वेदप्रामाण्यं च नान्यथा इति स्पष्टम् । व्यक्तीभविष्यति चायमर्थो जीवसरादौ । शान्तरक्षितेन बौद्धमतेऽपि यदि किञ्चिन्मानसं ज्ञानमतीतादिविषयकमङ्गीक्रियते तदा प्रत्यभिज्ञाप्रत्यक्षेण प्रमात्मकेन स्थिरं पृथिव्यादिकमिव आत्मापि स्थिरोऽकामेनाप्यङ्गीकरणीयः । अत एव बौद्धेष्वपि वात्सीपुत्रैस्तदनुयायिभिश्च बुद्धिशब्दान्तरार्चिःप्रभृतीनि क्षणिकानि क्षितिव्योमादीन्यक्षणिकानि स्थिराणि आत्माऽपि स्थिरः इत्यङ्गीक्रियते इति व्यञ्जयन्नाह-1 एवं प्रत्यभिज्ञा स्थिरविषयेति सिद्धे सोऽहमित्यादिना
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy