SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां स्थैर्यसाधकप्रत्यभिज्ञाप्रमात्वसाधनं दृष्टान्तसिद्धिश्च 329 भावप्रकाशः इत्यार्यलङ्कावतारसूत्रमुदाहृत्य विज्ञानस्यापि निस्स्वभावत्वं व्यवस्थापितम् । एवं बोधिचर्यावतारे प्रज्ञापारमितायां -- ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः । एवं च को गुणो लब्धः चित्तमात्रे प्रकल्पते ! || इत्यादौ । तद्विवरणपञ्चिकायां च न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन || इति प्राचीनकारिकाविवरणानन्तरं- निस्स्वभावा अमी भावा: तत्वतस्स्वपरोदिताः । एकानेकस्वभावेन वियोगात् प्रतिबिम्बवत् || इति । विज्ञानस्य क्षणिकत्वेऽपि एकानेकस्वभावो न संभवतीति 'तेन नैकं क्वचित्स्यात्' इत्येतद्विवरणे वक्ष्यते । एतेन - ज्ञानाकारनिषेघस्तु स्ववेद्यत्वान्न शक्यते विद्यते हि निरालम्बमारोपकमनेकधा ॥ ज्ञानस्यात्मगतः कश्चिन्नियतः प्रतिगोचरम् । अवश्याभ्युपगन्तव्यस्स्वभावश्च स एव च ॥ इति तत्वसंग्रहोक्तिर्वैभाषिकं प्रति दूषणं न तु माध्यमिकं प्रतीति सिद्धम् । आत्मसंवेदनेन परमार्थसतो विज्ञानस्याङ्गीकारे बाह्यार्थोऽपि परमार्थतोऽवश्यमङ्गीकरणीय इति बुद्धिसरे व्यवस्थापयिष्यते । क्षणिकत्वोपदेशश्च रूपाद्यायतनास्तित्वं तद्विनेयजनान् प्रति । 1 इति वसुबन्धूक्तदिशाऽन्याभिप्रायेण । यथोक्तं बोधिचर्यावतारे शान्तदेवेनलोकावतरणार्थं तु भावा नाथेन देशिताः । तत्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy