SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 320 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः वस्तुस्थैर्य सर्वार्थसिद्धिः निरस्यति- *वस्तुस्थैर्यमिति । *वस्तुशब्देन सत्त्वानुमानसूचनम् । यथाऽऽहुः आनन्ददायिनी वस्तुशब्देनेति । तस्य सत्त्व(वस्तु)वाचित्वादिति भावः । भावप्रकाशः पूर्वं संविदिताकारगोचरं चेदिदं भवेत् ।। जायेत पूर्वमेवेदं तादर्थ्यात्पूर्वबुद्धिवत् ॥ नचैवं तेन नैवेदं तदर्थग्राहकं मतम् । अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः । मायागोलकविज्ञानमिव भ्रान्तमिदं स्थितम् ।। ४५० ॥ निष्पादितक्रिये चार्थे प्रवृत्तेः स्मरणादिवत् । न प्रमाणमिदं युक्तं करणार्थविहानितः ॥ ४५१॥ इति तत्वसंग्रहे शान्तरक्षितेन प्रत्यभिज्ञायाः प्रान्तत्वसाधनसरणिरयुक्तेत्यभिप्रेत्याह-* वस्तुस्थैर्यमितीत्यादि । 2* वस्तुशब्देनेति-न्यायबिन्दौ 'अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः' इत्युदाहृतधर्मकीर्तिवचनादिति भावः । सिद्धान्ते अनुमानस्य वस्तुधर्मग्राहकत्वाङ्गीकारात् स्थिरत्वं वस्तुधर्मः अनुमानेन साधयितुं शक्यते । बौद्धमते उदाहृतधर्मकीर्तिवचनेन अनुमानस्यापरमार्थसामान्यग्राहकत्वस्थापनेन-- कल्पनापोटमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् । विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥ ...
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy