SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सत्कार्यवादनिरासे कारकापेक्षाऽयोगः 305 तत्वमुक्ताकलापः व्यक्तिर्व्यक्तानवस्थां भजति सर्वार्थसिद्धिः 1* उत्तरत्र अर्धजरतीयस्सत्कार्यवादः । व्यक्तेरपि व्यक्तयर्थ कारकापेक्षेति चेत् तत्रानवस्थाप्रसङ्गमाह-व्यक्तिरिति । व्यक्तेः भावप्रकाशः '* उत्तरत्रेत्यादि-एतत्पक्षे अपसिद्धान्तः असदकरणादित्यादिहेतुविरोधश्चानुपदमेव वक्ष्यते । योगभाष्यव्याख्याने तत्ववैशारद्यां वाचस्पतिना योगवार्तिके विज्ञानभिक्षुणा च असत्कार्यवादप्रसङ्गभयेन धर्मलक्षणावस्थानां सर्वदासत्त्वरूपनित्यत्वस्य सिद्धान्तितत्वेन अभिव्यक्तेः प्रागसत्त्वाङ्गीकारेऽपसिद्धान्त इत्यर्थः । असदकरणादिति हेतुविरोधः स्फुटः । योगवार्तिके 'सत एवाभिव्यक्तिरिति सत्कार्यवादिनो नियमः । उत्पत्तेरुत्पत्तिरिवाभिव्यक्तेरभिव्यक्तिरपि स्वरूपमेव । अभिव्यक्तेश्चाभिव्यक्तयन्तरास्वीकारेण तस्या असत्या एवोत्पादेऽपि न क्षतिः' इति विज्ञानभिक्षुक्तावपि अभिव्यक्तेर्वर्तमानावस्थया प्रागसत्त्वमेव विवक्षितं न तु अत्यन्तासत्त्वं । तेनैव सांख्यप्रवचनभाष्ये अभिव्यक्तेः प्राक्सत्त्वमसत्त्वं वेति विकल्प्य सर्वकार्याणां सर्वदासत्त्वस्य सिद्धान्तितत्वात् ; योगवार्तिके घटादेरनागतातीतावस्थे एवाभिव्यक्तेरनागतातीतावस्थे नातिरिक्ते इति अनागतातीतावस्थावत्त्वरूपानित्यत्वस्य घटादौ अभिव्यक्तौ चाभ्युपगतत्वात् । अत आचार्य विकल्पेऽभिव्यक्तेर्नित्यत्वपक्ष एव विज्ञानभिक्षुसंमत इति तत्पक्षे कारकव्यापारस्य वैफल्यदोषो बोध्यः । ननु परिणामसूत्रे विज्ञानभिक्षुणास्यादेतत् लक्षणाभिव्यक्तेरपि नित्यत्वात् कथं क्रमिकत्वमित्याशङ्कय SARVARTHA. 20
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy