________________
298
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः यदपि तदुपादेयत्वात्तदभिन्न इति; एतदपि पूर्ववदेव । तदुपादेयत्वं च तज्जन्यत्वमानं वा तद्विकार्यत्वं वा तत्सम्बन्धित्वं वा तद्धर्मत्वं वा तदाभिन्नत्वं वा अन्यद्वा यत्किञ्चित् इति ? नायः; निमित्तैरप्यभेदप्रसङ्गात् । न द्वितीयः; तद्धर्मत्वहेतूक्तदोषादेव । उभयत्र पटावस्था तन्त्वात्मा न भवति तन्तुभ्यो भिन्नत्वात् घटवत् इति प्रतिप्रयोगस्य शक्यत्वाच्च । ' * इष्टोऽपि हि त्वयाऽपि
आनन्ददायिनी तथाच असाधारणानैकान्तिकत्वमिति भावः । ‘पटस्तन्तुभ्योऽभिन्नः तदुपादेयत्वात् यदुक्तसाध्यं न तदुक्तसाधनं न यथा घटः' इत्यनुमानान्तरं दूषयति यदपीति । अभेदस्तादात्म्यं । पूर्ववदेवेतिव्याप्यत्वासिद्धयादिदूषणदुष्टमित्यर्थः । षणान्तरं च वक्तुं विकल्पयति-तदुपादेयत्वमिति । तत्सम्बन्धित्वं वेति-संयोगसमवायान्यतरवत्त्वमित्यर्थः । निमित्तैरिति-तत्र व्यभिचार इति भावः। तद्धमत्वहेतूक्तेति-~-दृष्टान्तासिद्धयादिदोषादरित्यर्थः । उभयत्र—विकल्प द्वयेऽपि । हेत्वसिद्धिं परिहरति—इष्टोऽपीति । भवता कारणे सत्त्वं
भावप्रकाशः 1* इष्टोऽपि हीत्यादि-यथोक्तं तत्वकौमुद्याम्-(९) स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु मर्हन्ति । एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात्' इत्युपक्रम्य 'इह तन्तुषु पटः इति व्यपदेशोऽपि इह वने तिलका इत्युपपन्न इति' इति(१०) 'कार्याणामभेदेऽपि कथञ्चिद्भेदविवक्षयाssश्रयाश्रयिभावः ! यथेह वने तिलका इत्युक्तः' इति च ।