________________
282
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्व्य
भावप्रकाशः योगसूत्रे (१-९) तत्ववैशारद्यां-'न खलु सांख्यीये राद्धान्ते अभावो नाम कश्चिदस्ति वस्तुधर्मः ! ' इति वाचस्पतिना पातञ्जलराद्धान्तस्यापि सांख्यीयत्वोक्तेः ; न्यायकणिकायां तेनैव 'त्रिस्रःखल्विमा भावपरिणतिविधा भवन्ति सांख्यानाम् ' इति एतेन (३-१-१३) इत्यादि योगसूत्रार्थस्य सांख्यसम्बन्धित्वाभिधानात् वेदान्तेषु पालञ्जलानां सेश्वरसांख्यव्यपदेशदर्शनात् योगभाष्ये पादान्ते ‘इति पातञ्जले सांख्यप्रवचने' इत्युक्तेश्च । एतेन 'सांख्यस्य नित्यैकान्तवादनियतान् प्रयोगानन्वाह' इति ‘सन्ति प्रागप्यवस्थाः' इत्येतदवतरणाचार्यसूक्तिरपि नियूंढा ; उभयोरप्यवस्थानां सर्वकालसम्बन्धित्वस्य सम्मतत्वात् । निरन्वयविनाशानङ्गीकारेण प्रागभावध्वंसयोरतीतानागतावस्थारूपतया अभिव्यक्तेर्वर्तमानावस्थारूपतयाऽवस्थानां परस्पराभावरूपत्वेन नाशाभावस्यापि वर्तमानावस्थारूपत्वाभ्युपगमेन कालादिभेदेनावस्थानामेकत्र विरोधविरहात् । अवस्थानां धर्मतया अतीतादिलक्षणपरिणामस्य धर्मनिष्ठत्वात् ; तथाहि'एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः' (३-१३) इति पातञ्जलं सूत्रं सर्वनित्यतापूर्वपक्षनिदानमिति प्रतीयते । तत्र योगभाष्यम्.---' एतेन-पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोधर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामो लक्षणपरिणामश्च निरोधस्त्रिलक्षणः त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानं .. लक्षणं प्रतिपन्नो यत्रास्य स्वरूपेणाभिव्यक्तिः; एषोऽस्य द्वितीयोऽध्या; नचातीतानागताभ्यां लक्षणाभ्यां वियुक्तः' इति । अत्र तत्ववैशारदी—'अभिव्यक्तिः समुदाचारः। एषोऽस्य प्रथममनागतमध्वानमपेक्ष्य द्वितीयोऽध्वा. । स्थादेतत् ; अनागतमध्वानं हित्वा