________________
276
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
_1* या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य । इति । अतः कार्यप्राप्तिः कारणानङ्गम्। उक्तं चाक्षपादेन-* घटादि. निष्पत्तिदर्शनात् पीडने चाभि(व्यभिचारादप्रतिषेधः ' इति।
आनन्ददायिनी परस्पराध्यासरूपभ्रान्तेरेव निवृत्तिर्भवदभिमता न तद्धेतुभूतसंयोगनिकृत्तिरिति व्यभिचारस्तदवस्थ इत्यर्थः । उक्तेऽर्थे तदुक्तिं संवादयतियथेति
प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । 'प्रकृतेस्सुकुमारतरत्वं-पुनदर्शनासहत्वम् । अतिमन्दीक्षवैलक्ष्यमन्धरा प्रमादाद्विगळितवसना चेदालोक्यते वधूः पुरुषेण पुनस्सा दर्शनं न याति तथा प्रकृतिरपि पुनर्न द्रक्ष्यते इत्यर्थः' इति वाचस्पतिना व्याख्यात इत्यर्थः । उक्तेऽर्थे अक्षपादसंमतिमाह-उक्तं चेति । अप्राप्तैरेव घटादिनिष्पत्तिदर्शनात् दर्शनानुरोधेनैवातिप्रसङ्गभङ्गात् । पीडने च
भावप्रकाशः चितौ बुद्धराकारवत्परिणामो न संभवतीत्यगत्या प्रतिबिम्बरूपतायां पर्यवस्यति । तथा च सुखादिरूपबुद्धिवृत्तिप्रतिबिम्बः कूटस्थचितौ ‘भोगः । तस्मिन् भुक्तत्वं अतीतकालोत्पत्तिकत्वम् । अत्रत्यधात्वर्थस्य भोगपदेनैव लामे विवक्षाऽसम्भवात् । तथाच अतीतकालोत्पत्तिकोक्तभोगानुकूलसुखादिपरिणामवतीत्यर्थ इति । त्यागश्च उक्तदुःखजनकसंयोग. विरोधिविभागाकूलव्यापारः । स च सत्वपुरुषान्यताख्यातिरूप इति च । 'श्या दृष्टाऽस्मीति । अत्र वंशीधरः- वस्तुतस्तु अविवेकनिमित्तकसंयोगविशेषाभावादेव पुनः प्रवृत्तरसंभवादित्यर्थः' इत्याह । * घटादीत्यादि