SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः चेन्न; निमित्तवदेव नित्यप्राप्तिनरपेक्ष्यात् । त्वत्पक्षेण च यद्येन नित्यप्राप्त न तत्तस्योपादेयं यथा पटस्य तन्तुः तथा च पटः तस्मान्न तन्तूपादेय इति प्रसङ्गात् । प्रकृतिपुरुषयोर्नित्यप्राप्तयोर्नोपादानोपादेयभावः । अतो ययेन नित्यप्राप्तं न तत्तस्योपादेयं यथा प्रकृतिपुरुषयोरन्योन्यमिति । पटादिकमपि येन नित्यप्राप्तं कथं तस्योपादेयं स्यात् । तयोरन्योन्यप्राप्तिनास्तीति चेन्न पान्धवदुभयोरपि संयोगः तत्कृतस्सर्गः ॥ आनन्ददायिनी निमित्तवदेवेति-निमित्ते अतिप्रसङ्गपरिहारवदुपादानेऽपि संभवादिति भावः । प्रतिपक्षमाह-त्वत्पक्षेण चेति । तथाच पट इति-नित्यप्राप्त इत्यर्थः । व्यभिचारमप्याह-प्रकृतिपुरुषयोरिति । विरुद्धत्वमप्याहअतो यद्येनेति । तयोः प्रकृतिपुरुषयोः । पङ्गन्धवदिति पुरुषस्य दर्शनार्थं कैवल्यार्थ तथा प्रधानस्य । इति पूर्वार्धम् । अत्रेत्थं वाचस्पतिना व्याख्यातम्-' ननु चेतनोऽहं चिकीर्षन् करोमी' ति कृतिचैतन्ययोः सामानाधिकरण्यमनुभूयते तन्नोपपद्यते चैतन्यस्याकर्तृत्वात् कर्तुश्चाचैतन्यात् इति शङ्कायाम् :--- तस्मात्तत्संयोगात् अचेतनं चेतनावदिव लिङ्गम् । इति परस्परसंयोगाधीनो भ्रम इत्युक्ता ; अवच्छिन्नयोस्संयोगोऽपेक्षा विना न संभवति ; अपेक्षा चोपकार्योपकारकभावं विना नेति अपेक्षा ___ भावप्रकाशः __ * निमित्तवदेवेति—एतेन वंशीधरोक्तानुमानमप्यप्रयोजकमिति दर्शितम् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy