________________
264
. सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सव्या
तत्वमुक्ताकलापः शक्ताशक्तप्रभेदादिभिरपि यदि
सर्वार्थसिद्धिः
घटादिकार्यमप्राप्तैरन्यत्र दण्डचक्रादिभिस्तस्योत्पत्तिः; तन्त्वादिभिर्वा पटादेः! अतोऽवगम्यते स्वकार्य प्राप्तैरेव निमित्तैरुपादानैश्च स्वसाध्यसाधनमिति। 1 *प्राप्तिश्च द्विनिष्ठेति *साध्यस्यापि साधनवत्पूर्वभावित्वात् सदेव साध्यमिति । 'शक्तस्य शक्यकरणात्' इत्युक्तहेत्वभिप्रायेण शक्ताशक्तप्रभेदवचनम् ।
आनन्ददायिनी उपादानग्रहणमुपलक्षणमित्याह-दण्डचक्रादिभिरिति । सदेव साध्यमिति–पूर्वमपि सदेव कार्य साध्यमित्यर्थः । ननु शक्ताशक्तप्रभेदादिभिरित्यनुवादो न युक्तः कारिकायामदृष्टरित्याशङ्कयाहशक्तस्येति । ननु घटादिकार्य प्रागपि सत् शक्तकारणजन्यत्वादित्यत्र
भावप्रकाशः
कार्यस्यासत्त्वे न संभवतीत्युक्तम् ; तत्र प्रयोजकमाह-* प्राप्तिश्च द्विनिष्ठेति । 'इतश्च कारणव्यापारात्प्राक् सदेव कार्यम् उपादानग्रहणात्' इति तत्वकौमुदीवाक्यन मूले सत्कार्यमित्यत्र उपादानग्रहणादिति हेतुर्विवक्षित इति प्रतीयते इति भावेनाह२* साध्यस्येत्यादि । एतेन ‘अत्र चेदमनुमानं-मृदादयः स्वसंबद्धकार्यजनकाः उपादानकारणत्वादिति वंशीधरोक्तिर्मूलाननुगुणति बोधि