________________
262
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
चेत् ; वस्तुनस्तार्ह अनादितैव! न च सन्निव असन् घटः प्रागुपलभ्यते! अस्माकं तु अव्यक्तावस्थयाऽनुपलब्धिरप्युक्ता । 'नह्यसन् घटादिर्न घटादिः' इति तु कस्यचिद्वचनं बालप्रता
आनन्ददायिनी वासत्त्वकालेऽप्यसत्तया चोपलब्धिः प्रसज्येत ; नचेष्टापत्तिः ; अनुभवविरोधादित्याह-वस्तुनस्तीति । ननु सर्वदा सत्त्वे तवाऽपि सर्वदा सत्त्वेन प्रतीतिस्स्यादित्यत्राह-अस्माकं त्विति । यद्यप्यव्यक्तावस्थाव्यक्तावस्थयोविरोधात् कथं व्यक्तस्यैवाव्यक्तत्वम् ? कालभेदेनाविरोधेऽप्यव्यक्तावस्थस्याप्रतीतिवदसत्त्वावस्थस्याप्यप्रतीतिरिति वक्तुं शक्यम् ; तथाऽप्येकस्यैव व्यञ्जकसन्निधानासन्निधानाभ्यां समावेशो दृष्टः ; न तथा सत्त्वासत्त्वसमावेश इति भावः । सत्त्वविशिष्टस्य कारणत्वखण्डनाय ; 'किञ्च स्वरूपसत्त्वं स्वरूपाद्धटाद्यात्मनो नाधिकम् । असतोऽपि च स्वरूपं स्वरूपमेव । न ह्यसन् घटादिर्न घटादिः । तथा सति घटादिर्नेत्यपि न स्यात् ; असतोऽघटादित्वात्, इति खण्डनोक्तमनुवदति-न ह्यसन् घटादिरिति । असत्त्वेन स्वरूपेण व्यवह्रियमाणं घटादि घटादिरूपं न भवतीति न स्वरूपमेव सत्त्वमिति यावत् । तत्र प्रतिबन्दिःतथा सति स्वरूपसत्त्वाभावे घटादिसत्ताऽपि स्वरूपं न स्यात् ; तथा च सत्त्वं न स्यात् । तत्र हेतुः असतोऽघटादित्वात्—स्वरूपस्वाभावात् ; तथाच निषेधो न स्यात् । प्रतियोगिनोऽभावादिति भावः । तथाच सत्त्वस्य घटरूपत्वे असत्त्वस्यापि घटरूपत्वमविशेषादिति सत्त्वासत्त्वात्मकत्वयोर्विरोधात् सदसद्विलक्षणत्वरूपानिर्वचनीयत्वं पर्यवस्यतीति असन् घयदि:--असत्त्वेन व्यवह्रियमाणघटादिः न