SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां देहादेः पञ्चभूतोपादानकत्वम् 25.3 तत्वमुक्ताकलापः संघातो नैकभूतैरपि भवति यथा ह्येकभूतस्य सर्वार्थसिद्धिः या चान्या कल्पना-'शरीरादिषु पृथिव्यायनेकभूतसद्भावेऽप्येकमेव भूतमुपादनम् ; अन्यत् संसर्गिमात्रम्' इति; तामपि निरस्यति-संघात इति । अवयविसद्भावे हि एकप्रकृतित्वं नियन्तव्यं न वा त्वया ? संघातवादे तु यथादर्शनं सर्वमुपादानम् । न च विजातीयानां संहतिर्नास्ति ! दृष्टविरोधात् युष्मसिद्धान्तविरोधाच्च, अन्यथा कथं तैजसत्वाभिमते काञ्चनादौ गुरुत्वादिक्लप्तिः? किंच त्रिवृत्करणं नामरूपव्याकरणार्थम् । 'चतुविधाहारमयं शरीरम्' इति च गर्मोपनिषत् । ‘पञ्चभूतात्मकं आनन्ददायिनी प्रसङ्गसंगतिमाह-या चान्या कल्पनेति । अनेकप्रकृतित्वेऽपि बाधकामावस्य उत्तरत्र वक्ष्यमाणत्वादिति भावः । संघातवादेवितिअत्रानेकप्रकृतिकत्वमेकप्रकृतिकत्वमिति विचारस्यवानुत्थानमित्यर्थः । दृष्टविरोधादिति - नीरक्षीरादिसंहतिदर्शनादित्यर्थः । दृष्टिविरोधादिति क्वचित्पाठः । सिद्धान्तविरोधमेवोपपादयति-अन्यथेति । उपष्टम्भकपार्थिवांशगुरुत्वं स्वर्णे प्रतीयते इति युष्मत्क्लप्तिः। आदिशब्देन रूपादिह्यते । निगमायुक्तिभिश्चेत्यस्यार्थमाह--किंचेति । ननु त्रिवृकरणश्रुतिर्न देहस्य पाञ्चभौतिकत्वं वदत्यित्राह--त्रिवृत्करणमिति । रूपवत्त्वाच्छरीरस्येति भावः । साक्षाद्विवक्षितार्थप्रतिपादिकां श्रुतिमाहचतुर्विधाहारमयमिति । यद्यपि पेयं लेह्यं चोष्यं खाद्यमिति चतुर्विधा
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy