________________
238:
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः घनत्वश्यामतादीनां वनैकाधिकरण्यतः । न स्यादृक्षबहुत्वादेर्घनत्वाद्यैर्विशेषणम् ॥ तन्तवस्सितरक्ताद्याः पटचित्रानुयायिनः। अवयव्यनपेक्षत्वं चूर्णसंहतिचित्रवत् ॥
आनन्ददायिनी घटादिनिष्ठत्वाभावे महान् घट इत्यादिविशेषणविशेष्यभावप्रतीतिर्न स्यादित्यत्राह-घनत्वेति । घनत्वं-निविडत्वं संयोगविशेषः महत्त्वं वा । वनैकाधिकरण्यतः–वनसामानाधिकरण्यात् । वननिष्ठत्वाभावात्तत्रापि घनं वनं नीलं वनमिति प्रतीतिर्न स्यादित्यर्थः । वृक्षबहुत्वादे:वनस्येत्यर्थः । केचित्तु-वनैकाधिकरण्यतः—घनं वनं श्यामं वनमिति प्रतीत्या वननिष्ठत्वस्य सिद्धेः वृक्षबहुत्वादेः-घनत्वाद्यैस्सह बहवो वृक्षाः घनाः श्यामा इति सामानाधिकरण्यप्रतीतिरित्यर्थः । आदिशब्देन देशसंयोगो विवक्षितः । ननु वननिष्ठमेव घनत्वादिकमित्यत्राह-वृक्षवहुत्वादेरिति । ततोऽतिरिक्तस्य वनस्य भवताऽप्यनङ्गीकारात् । तस्य गुणत्वात् तत्र घनत्वादीनामसंभवादिति भावः । ननु सितरक्तादितन्त्वारब्धे. पटे चित्ररूपधीरस्ति; तन्तूनामेव पटत्वे प्रत्येकतन्तुन्यतिरेकेण चित्ररूपाधिकरणपटस्याभावात्तन्तूनां तदधिकरणत्वाभावादाश्रयाभावेन चित्ररूपाभावप्रसङ्गेन चित्रधीन स्यादित्यत्राहतन्तव इति । सितरक्ताद्यास्तन्तव एव पटचित्रानुयायिनः। व्यतिषकवशेन पटावस्थापन्नेषु सितरक्तादितन्तुषु विद्यमाननानारूपेष्वेव चित्ररूपन्यवहार इत्यर्थः । तथा च चित्ररूपाश्रयतया नावयव्यभ्युपेयमित्याहअवयल्यनपेक्षत्वमिति । अनपेक्षत्वं-अनपेक्षा । तत्र दृष्टान्तः-चूर्णसंहुविचित्रकदिति । सितरक्तादिचूर्णसंहताक्वयव्यनभ्युपगमादिति भावः।।