________________
228
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
. [जडद्रव्य
सर्वार्थसिद्धि. पटपतिस्समीक्ष्येत क्रमादाधिक्यशालिनी ॥ प्राक्सिद्धानां पटादीनामुत्तरोत्तरजन्मनि ।
अहेतुको विनाशश्च स्थिरपक्षे न युज्यते ।। न चेत् ; उपलम्भविरुद्धनाशसन्ततिकल्पनाप्रसङ्गः । * एवमेकद्वित्रयादितन्त्वपकर्षणदशायामपि खण्डपरम्परोत्पत्तिनाशपरम्पराक्लप्तिः क्लिष्टतरा । लाघवशालिनि संघातमात्रपक्षे राशिन्यायानासौ दोषः। ननु गौरवमयादवयविपरिहारे सौगतवत् स्वरूपविशेषमालम्ब्य तन्त्वादीनां संयोगोऽपि त्यज्यता
आनन्ददायिनी लिङ् । ननु पूर्वपूर्वेषां द्वितन्तुकानां त्रितन्तुककाले नाशात् पटपतयनुपलम्भो न दोष इत्याशङ्कयाह-प्राक्सिद्धानामिति । स्थिरपक्षे इतितथा च बौद्धपक्षपरिग्रहप्रसङ्ग इति भावः । द्वितीयं दूषयतिन चेदिति । न युज्यते इत्येतन्न चेदित्यर्थः—युज्यते चेदिति यावत् । तथा च नाशसन्ततिरनुपलम्भबाधितेति भावः । केचित्तु-प्राक्सिद्धानामित्यारभ्य न युज्यते इत्यन्तं पूर्वशेषतया व्याख्याय; द्वितीयं दूषयीतन चेदितीत्याहुः । एवमिति-अनुपलम्भबाधितेऽपीत्यर्थः । कल्पनीयेति शेषः । लाघवशालिनीति-अतिरिक्तद्रव्याभावेन लाघवादिमतीत्यर्थः ।
भावप्रकाशः 1 * एवमित्यादि- यथाऽऽह किरणावल्यामुदयनः- कथं ताह चरमादितन्त्वपकर्षणेऽल्पतरतमादिपटोपलम्भ इति चेत्; प्रतिबन्धकविगमेऽवस्थितसंयोगेभ्यः खण्डपटोत्पत्तेः आद्यादितन्त्वपकर्षणे त्वयाऽप्येषैव रीतिरनुसतव्या। अन्यथा द्वितन्तुकादिपटपर्यन्तसमस्तकार्यविनाशे