SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ रसः]त्रिगुणपरीक्षायां सद्दव्यवादसाधनेकार्योपादभेदेपरोक्तसाधकानामन्यथासिद्धिः 223 तत्वमुक्ताकलापः कालादिभेदैः । द्रव्याभेदेऽप्यवस्थान्तरत इह तु ते पत्रताटङ्कवत्स्युः सर्वार्थसिद्धिः पूर्वकालीनास्तन्त्वादयः पटादयस्तु पश्चाद्भाविन इत्येवंविध इह काल भेदः। आदिशब्देन कारणभेदादिसंग्रहः । अंशुप्रभृतयस्तन्त्वादीनां; पटादीनां तु तन्त्वादय इति नियतोत्र कारणभेदः । कार्यभेदश्चैवं नियत एव । कारणस्यैव च कार्यत्वे कारकव्यापारवैयर्थ्यं स्यादिति भेदहेतवः। एषामन्यथासिद्धिमाह-द्रव्याभेदेऽपीति । तुशब्दोऽवधारणे। उपादानोपादेयतया अवस्थाद्वयवति द्रव्ये घटपटवद्भेदं साधयितुं न शक्नुवन्तीत्यर्थः। अत्र दुस्तरप्रतिबन्धभिप्रायेण निदर्शयति-पत्रताटङ्कवदिति । पत्रस्य हि *कुण्डलितस्य नियतं नामान्तरं दृष्टम् । आनन्ददायिनी कारणभेदादीत्यनेन कार्यभेद उच्यते । कार्यभेदश्चैवमिति–पटस्याच्छादनरूपं कार्यम् ; तन्तूनां पटादिरूपं कार्यमियर्थः । एतेषामनुग्राहकं तर्कमाह—कारणस्यैवेति । अनुकूलतर्काभावान्न साधक इत्याह-एषामिति । दुस्तरेति-तथा च तत्र व्यभिचारोऽपीति भावः । ___ भावप्रकाशः *कुण्डलितस्येति-एतेनाहिकुण्डलाधिकरणे ‘पूर्ववद्वा' इति सिद्धान्तसूत्रेण 'उभयव्यपदेशात्त्वहिकुण्डलवत्' इति पूर्वपक्षोक्ताहिकुण्डलनयस्य ब्रह्मणि नाङ्गीकारसंभव इति स्थापनेऽप्यचिद्विषये तत्स्वीकारस्संभवतीति सूचितम् । तेन न्यायवार्तिके 'अथाऽपि सर्पकुण्डलि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy