________________
सरः
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
195
भावप्रकाशः तानेव स्कन्धादीन्येन स्वभावेन निरस्तसमस्ताविद्यावासना बुद्धा भगवन्तः पश्यन्ति । अतैमिरिकोपलब्धकेशदर्शनन्यायेन तदेषां परमार्थसत्यमिति । यदाह शास्त्रवित्
विकल्पितं यत्तिमिरप्रभावात्
केशादिरूपं वितथं तदेव । येनात्मना पश्यति शुद्धदृष्टिः
तत्तत्वमित्येवमिहाप्यवेहि ॥ इति । परमार्थतोऽवाच्यमाप परमार्थतत्वं दृष्टान्तद्वारेण संवृतिमुपादाय कथंचित्कथितम् । न तु तदशेषसांवृतव्यवहारविरहितस्वभावं वस्तुतो वक्तुं शक्यत इति । यदुक्तम्
अनक्षरस्य धर्मस्य श्रुतिः का देशना च का ।
श्रूयते देश्यते चार्थः समारोपादनक्षरः ॥ इति । तस्माद्यवहारसत्य एव स्थित्वा परमार्थो देश्यते । परमार्थदेशनावगमाच्च परमार्थाधिगमो भवति । तस्यास्तदुपायत्वात् । यदुक्तं शास्त्रे. व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
परमार्थमनागम्य निर्वाणं नाधिगम्यते ।। इति । एवं परमार्थदेशनोपायभूता परमार्थाधिगमश्चोपेयभूत इति । अन्यथा तस्य देशयितुमशक्यत्वात् । ननु च तथाविधमपि तथाविध. बुद्धिविषयः परमार्थतः किं न भवतीत्यत्राह-बुद्धिस्संवृतिरुच्यते इति । सर्वा हि बुद्धिरालम्बननिरालम्बनतया विकल्पस्वभावा । विकल्पश्च सर्व एवाविद्यास्वभावः अवस्तुग्राहित्वात् । यदाह
13*