________________
सर:
त्रिगुणपरीक्षायां परमाणुकारणवादनिरासः
191
सर्वार्थसिद्धिः ननु बुद्धिस्तावत्सर्वतन्त्रासद्धा। '* सांवृतीत्यपि हि तां माध्यमिको मन्यते !
आनन्ददायिनी सर्वशून्यवादिनः सा न सिद्धत्यत आह—सांवृतीति-दोषसिद्धेत्यर्थः ।
भावप्रकाशः इति । तदुत्तरं
परमाणोरसंयोगे तत्संघातोऽस्ति कस्य सः । नचानवयवत्वेन तत्संयोगो न सिध्यति ॥ १३ ॥
दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते । । इति कारिकाक्रमः । तत्र दिग्भागभेद इति कारिकार्थः मूले द्वितीयपादेन विशदकृितः । ननु योगाचारमते विज्ञानमात्रस्य सत्यत्वाङ्गीकारेण तदाकाररूपविषयतासंभवेऽपि माध्यमिकमते
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्व न युज्यते तस्य शून्यं यस्य न युज्यते ॥ (माध्य-वृ) इति सिद्धान्तेन विज्ञानमप्यसत्यं
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः । सर्वशश्च न संसर्गमन्योऽन्येन व्रजन्युत ॥ (माध्य-वृ) सान्तराविन्द्रियार्थौ चेत् संसर्गः कुत एतयोः । निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः ।। निरंशस्य च संसर्गः कथं नामोपपद्यते । संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ॥
विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते । (बो-च-पं) इति संसर्गोऽपि दूषितः । एवं च बुद्धेस्सर्वतन्त्रसिद्धता कथमिति शङ्कामपाकरोति । '* सांवृतीत्यादिना । उक्तं च माध्यमिकैः--