SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम् 183 भावप्रकाशः भागत्रयविशिष्टता वस्तुनः एकदैव हस्ताभ्यां पृथक् पत्रादिच्छेदने प्रथममेव त्रिधा विभागेन प्रथमतो द्वेधा छेदानन्तरमेकांशस्य पुनश्छेदेन चेति द्विधा संभवति ; तत्रापि समपरिमाणतया विषमपरिमाणतया वा छेदनेऽपीति श्रुतावेकत्र विनिगमकं न स्फुटं ; एवं मेलनांशोऽपि न स्फुटः ; तथाऽपि ' अन्नमशितं त्रेधा विधीयते' इतिवत् त्रेधा करवाणीति वा तिस्रः करवाणीति वा श्रौतपाठविरहेण प्रथमतः त्रिधा भेदो न विवक्षितः । प्रथमतो द्वेधा भेदानन्तरमेकांशस्य पुनर्भेद एवेति प्रतीयते समपरिमाणतया भेदः स्वार्धस्यान्यदीयपादांशैः मेलनं चेत्यत्र श्रुतेरौदासीन्येऽपि 'वैशेष्यात्तु तद्वादस्तद्वादः' त्र्यात्मकत्वात्तु भूयस्त्वात्' इति सूत्रे स्मृतिवचनानि च प्रमाणं न त्वन्यत् । एवंच स्मृतिमन्तरा श्रुत्यर्थनिर्णयः कस्यापि न संभवतीति स्मृतेरवश्यमादरणीयत्वे तदनुरोधेन प्रथमतो द्वेधा विभागे तत एकांशस्य विभागानन्तरं अंशयो योः पुनर्विभागः श्रुत्यनुक्तोऽपि ग्राह्यः । इत्थं च प्रथमतो विभागानन्तरं चतुर्धा विभागस्संपद्यत इति वियदधिकरणे — तासां . त्रिवृतम् ' इत्यत्र तच्छब्दस्य सर्वशाखाप्रत्ययन्यायेन पञ्चभूतार्थकत्वव्यवस्थापनमपि संगच्छते श्रुतिस्मृत्योरविरोधश्चेतीयं सांप्रदायिकी सरणिरिति । एतेनाद्वैतपरिभाषाव्याख्यानखण्डनव्यसनेन कल्पतरुकारपक्षपातिना वंशधिरेण सांख्यतत्वकौमुदीविवरणे यदुक्तं-'संप्रदायाध्वना पञ्चीकरणाङ्गीकारे विनिगमनाविरहेण षडादिकरणापत्तिः । किंचैकैकं त्रेधा विभज्य ततोऽशद्वयमेकैकं द्वधा विभज्य स्वस्वेतरांशेषु मेलनमिति रीत्याऽपि स्वांशद्विकपञ्चविभागसंभवेन पञ्चीकरणसंभवे संप्रदायरीत्यैव पञ्चीकरणे विनिगमकाभावात् त्रिवृत्करणश्रुतिविरोधाच्च त्रिवृत्करणपक्ष एव मुख्यसिद्धान्तो भातीति' तत्परास्तं ; संप्रदायाध्वना पञ्चीकरणे भूतगतपञ्चत्वसंख्याया विनिगमकत्वेन षडादिकरणापत्तिविरहात् । किंच
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy