SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लूप्तिभङ्गानुवादः 165 भावप्रकाशः तद्भावः परिणामोऽत्र पर्यायः प्रतिवर्णितः । गुणात्सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम् ॥ पर्याय एवं च द्वेधा सहक्रमविवर्तितः । शुद्धाशुद्धत्वभेदेन यथा द्रव्यं द्विधोदितम् ॥ (४२सू) इति । उत्पादव्ययध्रौव्ययुक्तं सत् (५-२९) इति सूत्रे उत्पादादीनां द्रव्यस्य च उभयथा लक्ष्यलक्षणभावानुपपत्तिरिति चेन्न ; 'अन्यत्वानन्यत्वं प्रत्यनेकान्तोपपत्तेः' इत्यादौ भिन्नाभिन्नत्वं व्यक्तं राजवार्तिके स्यान्मतं ; उत्पादव्ययध्रौव्याणि द्रव्यादर्थान्तरभूतानि वा स्युः अनर्थान्तरभूतानि वा ? यद्यर्थान्तरभावः कल्प्येत तानिव सत्वानि ततोऽन्यत्वात् द्रव्यत्वाभावस्स्यात् । तदभावे च निराधारत्वादुत्पादादीनामभावः इति लक्ष्यलक्षणभावो नोपपद्यते । न हि असतां वन्ध्यापुत्राकाशकुसुमादीनां लक्ष्यलक्षणभावोऽस्ति । अथानन्तरत्वमिप्येत लक्ष्यमेव लक्षणमिति दृष्टविरोधस्स्यादिति ; तन्न; किंकारणं ? अन्यत्वानन्यत्वं प्रत्यनेकान्तोपपत्तेः । पर्यायिणः पर्यायाणां च स्यादन्यत्वं स्यादनन्यत्वं । यथैकस्य मनुष्यस्य जातिकुलरूपादिभिः अविशिष्टस्य अनेकसम्बन्धान्तराविभूतपितृपुत्रभ्रातृभागिनेयादयो धर्माः परस्परतो विशिष्टा उपलभ्यन्ते ; न तेषां भेदात्तस्य भेदः । नापि तस्याभेदात्तेषामभेदः । ततः पितृत्वादिशक्तयपेक्षया नाना मनुष्यत्वापेक्षया न पृथक् । तथा द्रव्यस्यापि बाह्याभ्यन्तरहेतुविशेषापादिताः पर्यायाः कथञ्चिद्भिन्नाः द्रव्यार्पणात्कथञ्चिदभिन्ना इति नासत्त्वं लक्ष्यलक्षणभावाभावः । तस्मादुत्पादादित्रयैक्यवृत्तिः सत्ता तद्युक्तं द्रव्यमित्यवसेयं । अत्राहद्रव्यस्यात्मभूतोऽन्वयो धर्मः । पर्यायोऽप्यात्मभूतो द्रव्यस्येति तन्निवृत्तिवव्यनिवृत्तिकल्पनायामुच्छेद प्रसङ्ग इति, अत्र ब्रूमहे-स्यादेतदेवं ; यदि क्रमेण पिण्डघटकपालादिवपिद्रव्याजीवानुपयोगत्वादिलक्षणः परि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy