________________
xxiii
प्रत्यक्षाल्लोकशब्दोक्तादधिकं च तदायतम् । अभाष्यत भवत्पूर्वैः प्रत्यक्षं चार्थसाधकम् ॥ अर्थकामौ पुमर्थौ च दृष्टोपायैरुदीरितौ । प्रीयसे दूयसे च त्वं बिभेषि च ततस्ततः ।। इष्टं प्राप्तुमनिष्टं च निवर्तयितुमुद्यतः । तत्सिद्धौ चरितार्थस्त्वं लोकवत्किं न मन्यसे ? ॥ बुभुक्षुरन्नमादत्से श्वभक्ष्यादि जहासि च । परोक्तया प्रतिपद्यार्थ प्रतिषे जिगीषया । तत्वधाघारणार्थ वा वादे किं न प्रवर्तसे । स्वयं वा मानतर्काभ्यां किं न किंचित्परीक्षसे ॥
(सर्वार्थसिद्धि ४२६-४२७) इति जल्पकथापरिग्रहेण स्वपरिग्रहाग्रहप्रवृत्तानां वादकक्ष्याप्रदर्शनाहङ्कारनिरसनमनुकूलमभिप्रयता ; शिक्षणमिदं तैः परिगृहीतं 'अस्तु तर्हि षड्धातुवादः अध्वर्युभिस्तथाध्ययनात्' इत्यभ्युपगमपर्यवसायीत्याशयेन श्रुतिप्रमाणकवादप्रवृत्तेः सर्वश्रुत्यैकरस्यप्रणयितानुगुणशिक्षणानुकूलतां मन्यमानेन ‘सम्यङ्न्यायानुग्रहमात्रेण बलाबलदृष्टया विरोधशान्तिः' इति सुशिक्षणं सङ्ग्रहेणोपसंहृतम् ॥
आर्षानार्षन्यायविस्तारबृन्देष्वाचार्याणां चातुरीवैभवोत्था । शिक्षाकक्ष्या निस्तरेद्बाह्यवादान् त्रय्यन्तार्थस्थापनासार्वभौमी ।।