SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सर:] त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः 139 सर्वार्थसिद्धिः कैश्विदप्यनुफलम्भात् , विभोरात्मनस्स्वर्गादिगत्युपदेशान्यथानुपपत्त्या तत्क्लप्तिरिति चेन्न,तरक्लप्तावपि युष्मन्मते तद्गतेरात्मन्युपचारात् । ततो वरमदृष्टशक्तया तत्रतत्र देहोत्पत्तिमात्रेण तत्तदेशगत्युपचारः। आनन्ददायिनी विभाोति स्वतः स्पन्दात्मकगतेरसम्भवादिति भावः । तत्तदेशगत्युपचार इति—यद्यपि लिङ्गशरीरे साक्षाद्गतिरस्ति तथाप्यात्मनो न सेति तत्र गत्युपदेश औपचारिक एव । तथा च देशान्तरशरीरोत्पत्त्याप्यौपचारिकव्यवहारसम्भवान्नोक्तं गतिमत्त्वं लिङ्गमिति भावः । अनुमानान्तरं भावप्रकाशः चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया । तद्वद्विना विशेष तिष्ठति निराश्रयं लिङ्गम् ।। इति कारिका । —चित्रमिति-लिङ्गनात् ज्ञापनाद्बुद्धयादयो लिङ्गं । तदनाश्रयं न तिष्ठति । जन्ममरणान्तराळे बुद्ध्यादयः प्रत्युत्पन्नशरीराश्रिताः प्रत्युत्पन्नपञ्चतन्मात्रवत्त्वे सति बुद्धयादित्वात् दृश्यमानशरीरवृत्तिबुद्धयादिवत् । विना विशेषैरिति-सूक्ष्मैश्शरीरित्यर्थः ॥ . ." ततस्सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यमः ॥ भारते।व।२९६श्लोइत्यङ्गुष्ठमात्रत्वेन सूक्ष्मशरीरवत्त्वमुपलक्षयति । आत्मनो निष्कर्षासम्भवात् । 'सूक्ष्ममेव शरीरं पुरुषः; तदपि पुरि स्थूलशरीरे शेते.' इति तत्वकौमुदी । प्रधानवत्प्रलयावस्थायिशरीरसिद्ध्या अर्थान्तरवारणाय प्रत्युत्पन्नेति-सर्ग प्रत्युत्पन्नेत्यर्थः । न च दृष्टान्तासिद्धिः । दृश्यमानेत्यादेरुत्पन्नमात्रपरत्वात् ' इति तद्विभाकरः । तत्र विपक्षे बाधकागमे पुरुषशब्दस्य प्रयोगभूयस्त्वेन शरीरिणि जीव एवं स्वस्
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy