________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
114
भावप्रकाश
अहङ्कारद्रव्यं निश्चयवृत्तिमद्दव्योपादानकं निश्चयकार्यद्रव्यत्वात् इत्यादि ; तत्र प्रकृत्यादेरनुमानागमाभ्यां साधनं ; 'प्रकृतिपुरुषतत्संयोगा नित्यानुमेया' इति स्वोदाहृतं सांख्याचार्यवाक्योक्तकारिकादि विरुद्धमिति फलितम् । सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । इत्युक्तकारिका पूर्वार्धतत्वकौमुद्यां — उपलक्षणं चैतच्छेषवतः' इति वाक्ये शेषवतः अवीतस्य व्यतिरेकिणः इत्यर्थ इति स्वेनैव विवरणेन व्यति रेक्यनुमानस्याप्यविषयातीन्द्रियार्थस्यैव श्रुत्या सिद्धेस्तदुत्तरार्धे स्फुटतया व्यतिरेक्यागमाभ्यामहङ्कारमहदादिसाधनासंभवात् । विपक्षे बाधकाद्यर्थ तत्रापि श्रुतेस्त्वयाऽङ्गीकृततया 'श्रुत्यालम्बे तु सैव प्रसजति शरणम् ' इति वक्ष्यमाणदिशा तत्रानुमानप्रवृत्यसम्भवस्य ‘शास्त्रयोनित्वादिति ' सूत्रसिद्धत्वात् ।
कौमुद्यापि न संजातो येषां तत्वविनिश्चयः ।
कृतस्तज्ञानसिध्यर्थं साङ्ख्यतत्वविभाकरः ॥ इति स्वोक्तयनुरोधेन रचनानुपपत्त्यधिकरणशङ्करभाष्यादिकं दूषायत्वा बाह्यानां सुखदुःखमोहरूपतां व्यवस्थापयतोऽपि पुरुषबहुत्वादिषु बहुषु विषयेषु साङ्ख्यविरुद्धमेवार्थ साधयतो वंशीधरस्य ‘विप्रतिषेधाच्चासम ञ्जसम् इति ' व्याससूत्रोक्तं दूषणमसमा(धान)धे यमेवेति चस्फुटम् । २३ ' अध्यवसायोबुद्धिः' २४ · अभिमानोऽहङ्कारः' ३० युगपञ्चतुष्टयस्य । तु वृत्तिः क्रमशश्चतस्य निर्दिष्टा । ' करणं त्रयोदशविधम् ' ३५ • सान्तः करणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात्रिविधं करणं द्वार द्वाराणि शेषाणि ' । ३७ — सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य
1
य.