________________
सरः
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरास
113
सर्वार्थसिद्धिः जीवाणुत्वनित्यत्वयोस्साधयिष्यमाणत्वात् । महदादीनां स्वरूपं
* अनुमानसिद्धं वा पक्षीक्रियते *आगमसिद्धं वा? नाद्यः .. तल्लिङ्गासिद्धेः।
आनन्ददायिनी आत्मनि व्यभिचारान्न व्याप्तिरित्यर्थः तल्लिङ्गासिद्धेरिति--तथा चाद्यानुमानस्याश्रयासिद्धिरिति भावः। ननु विष्वक्प्रवणा चिच्छक्तिः किंचिद्वारमपेक्ष्यप्रवर्तते स्वतो विष्वक्प्रवणयोग्यत्वे सति कदाचिदेव किंचिद्विषयकत्वात् यत्प्रवणयोग्यत्वेसति तेषु किंचिदेव प्रकाशयति तत्तत्र किंचिद्दारमपेक्षते यथाघटस्थदीपालोको बहिरर्थप्रकाशकः इति । तथाच यद्दार
भावप्रकाशः * ' अनुमानसिद्धंवेति-तस्मादपि चासिद्धं परोक्षमाप्तागमासिद्धम् । (२६) इति कारिकोत्तराधावतरणतत्वकौमुद्यां 'यत्र तन्नास्ति महदाद्यारम्भकमे' इति वाक्येनारम्भकमेऽनुमानाप्रवृत्तिप्रतीतावपि महदादौ तदप्रतीतेरिति भावः । * आगमासद्धं वेति-महदादौ तदारम्भक्रमे चानुमानाप्रवृत्तिः पूर्ववाक्ये विवक्षितेत्यभ्युपगमेनेद्र। अत एव मूले महदाद्यनुमानाकाराणामनुल्लेख इति भावः । एतेन ‘प्रकृतेमहान्' इति श्लोकव्याख्यानावसरे यदाह नवीनो वंशीधरः- एतेषु पदा• र्थेषु अष्टौ प्रकृतयष्षोडश विकाराः' इति गर्मोपनिषत् । पृथिवीच पृथिवीमात्राच इति प्रश्नोपनिषच्च प्रमाणमनुमानं च इत्युपक्रम्य इन्द्रियानुमानं तु ' अत्रहि रूपादि ज्ञानं' इत्यादिना टाकायामुक्तं ; तत्वान्तरेण तत्वान्तरानुमानमेव प्रकृतत्वादिदानीमुच्यते—तन्मात्रेन्द्रियाणि अमिमानद्रव्योपादानकानि अभिमानकार्यद्रव्यत्वात् यन्नवं. यथा पुरुषादि ।
SARVARTHA.