________________
108
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः कारणसहकारित्वादिसाधनेऽपि न विवक्षितसिद्धिः। न चतुर्थः; अवयविवादे तन्तुपटोदाहरणायोगात् । तत्र हि तन्तुगुणैः पटगुणा जन्याः। द्रव्यनित्यत्ववादे सिद्धसाधनात् । कार्यावस्थस्य कारणावस्थानियतगुणसाधने विरोधात् । पञ्चमस्तु विलक्षणमहत्त्वाद्यधिकरणत्वानिरस्तः । सजातीयगुणसद्भावमात्रे
आनन्ददायिनी न्तीति भावः । कारणसहकारित्वादीति-कारणं प्रत्यप्रधानत्वं कारणसहकारित्वमिति निर्वचनेऽपि (तेन) कारणं किञ्चित्सिद्धयेत् । न तु सुखदुःखमोहात्मकमित्यर्थः । आदिशब्देन समवायिविनाशजन्यविनाशप्रतियोगित्वादिकं विवक्षितं । इदमुपलक्षणं-कारणस्य कार्यजनने सहकारित्वं नाम के स्वजनने स्वकारणापेक्षया उत? यत्किञ्चित्कार्यजनने तत्कारणापेक्षया? नाद्यः ; बाधात् , महदादेः प्रकृत्यादिसहकारित्वा (सिद्धेः) भावात् । न द्वितीयः ; सिद्धसाधनादित्यपि द्रष्टव्यम् । अवयविवादे इति-तथा च असिद्धिरिति भावः । विरोधादिति-नित्यत्वाव्यक्तत्वादिसाधने कार्यत्वव्यक्तत्वादिना विरोधादित्यर्थः । ननु कार्यस्य स्वगुणा (णत्वा) वच्छेन कारणावस्थवृत्तित्वं साध्यं । तथा च सुखदुःखमोहादीनां महदादिधर्माणां त (द्वति कारणे वृत्त्या) त्कारणवृत्त्या तदात्मकपकृतिसिद्धिरिति चेन्न । अहङ्कारादिस्वकार (णा) णवृत्तिशब्दादिगुणवत्तयाऽऽकाशादीनां तत्र व्यभिचार इति भावः । कारणगुणसजातीयैर्गुणवत्त्वमित्यत्र किं तैरवेत्यवधारणं विवक्षितं उत नेति विकल्पमभिप्रेत्य आये दोषमाह-विलक्षणेति द्वितीयं निरस्यति-स्वसजातीयेति । किं च किं कारणगुणवत्त्वमात्रं साध्यते. यद्वा सर्वगुणसजातयिसर्वगुणवत्त्वं वा. उत विशेषगुणसाजात्यं