________________
106
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः माणत्वात् । अत एव न द्रव्यस्य गुणतादात्म्यं । '*शुक्लः पट इति च न पर्यायः। न द्वितीयः; अदृष्टरेव । तन्तुसमवेतत्वात्
आनन्ददायिनी भेदस्सिद्धः । तथा च तन्तुपटयोस्तादात्म्यात्तन्तुरूपमेव पटरूपमिति कारणगुणतादात्म्यं सिद्धमित्यत्राह-~-अत एवेति । द्रव्यनिष्पत्तिमात्रेण रूपादेस्सिद्धया रूपाद्यर्थपाकादिरूपकारकव्यापारवैयर्थ्यप्रसङ्गादेवेत्यर्थः । दूषणान्तरमाह-शुक्लः पट इति । अभेदे पर्यायत्वप्रसङ्गादित्यर्थः । न च अभेदेऽपि द्रव्यपटयोः पर्यायत्वाभाववदिहापी (पिने) ति शङ्कयं; तत्र द्रव्यत्वादर्भिन्नधर्मस्य सत्वात् । अत्रापि भिन्नधर्माङ्गीकारे स एव गुणो धर्मि (धर्मीच) भिन्न इति भावः । ननु कारणगणभूतरूपाद्यात्मकत्वाभावेऽपि रूपादिवत् स्वयमपि गुणान्तरं भवत्विति द्वितीयपक्षं दूषयति--न द्वितीय इति। तथा च असिद्धिरित्यर्थः ।
ननु कारणगुणत्वं नाम कारणसमवेतत्वमेव विवक्षितं ; अस्ति
भावप्रकाशः ग्जन्माननुभवादेरभेदसाधकत्वमर्थः । अपाकरणं जडसारे (२४) श्लोकादौ बोध्यम् । द्वयोः पृथग्जन्माननुभवस्याभेदसाधकत्वे रूपरसादेरैक्यप्रसङ्गः स्फुट इति भावः । अत एव-अपाकारिष्यमाणत्वादेव । धर्मधर्मिणोरभेदे बाधकमाह-शुक्ल: पट इति। सत्वादिद्रव्यत्रये पुरुषोपकारकत्वाद्गुणशब्दप्रयोगः न तु मुख्य इति हि सांख्यानां रहस्यं । इत्थं च कारणगुणात्मकत्वादिति . हेतोः. समन्वयादिति हेतुतों न फलतो.