________________
सव्याख्यसवोर्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
ARCISHERate
सर्वार्थसिद्धिः हाराश्च लौकिकानां तत्तदधिष्ठानमात्रविषयाः। मनसा जानामीत्युक्तिरपि'*धीविशेपविपया। अहमिति प्रत्यक्षं तु न महत्तत्वविषयं अहङ्काराविषयं वा; प्रत्यगात्मन एवाहमिति भानात् ।
आनन्ददायिनी रजसश्चक्षुरगम्यत्वं ; तम्यैव राश्यवस्थस्य चक्षुर्गम्यत्वं दृष्टमित्यर्थः । तथाच यदवस्थाविशिष्टस्य शास्त्रप्रतिपाद्यत्वं तदवस्थम्य न प्रत्यक्षत्वमिति भावः । ननु यत्र प्रत्यक्षमाधिष्ठानं नाम्ति तत्र कथमित्यत्राह-मनसेति । संभावनारूपधीविशेषविषय इत्यर्थः । ननु अहमिति महत्तत्वम्य अहङ्कारस्य च प्रत्यक्षत्वात् कथं तयोः शास्त्रवेद्यत्वमित्यत्राह-अहमिति । ननु साङ्ख्यैः । अध्यवसायो बुद्धिः' इत्यत्र बुध्यते अध्यवस्यतेऽनेनेति व्युत्पत्त्या महत्तत्वपरिणामतयाऽध्यवसायस्य तन्निष्ठत्वोक्तेरध्यवसायाश्रयतया प्रतीयमानोऽहमर्थो महत्तत्वमेव । तथा अभिमानोऽहकारः' इत्यत्र अभिमन्यतेऽनेनेति व्युत्पत्त्या तिरस्कारात्मकबुद्धेर्वाऽहकारधर्मत्वात्तदाश्रयतया
भावप्रकाशः असन्निकृष्टवाचा च द्वयमेव जिहासितम् । ताप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा ।।
इति । '*धीविशेषः .....संस्कारजन्यं ज्ञानं । ताद्ध सविकल्पकस्मरणादि । ' ननु अतीन्द्रियविषयकस्य योगिप्रत्यक्षस्य सिद्धान्तेऽप्यङ्गीकारेण नाध्यक्षणेति मूलमयोग्यामिति चेत् न ; योगिप्रत्यक्षस्यागमैकसिद्धस्य सिद्धान्तेऽङ्गीकारेण तत्र श्रुतावेव साधकत्वपर्यवसानस्य 'श्रुत्यालम्बे तु सैव प्रसजति शरणम्' इति (बुद्धिसरे ३६) वक्ष्यमाणत्वेनानुपपत्त्यभावात् ।