________________
xiii
अयं च सुगृहीतनामा नृसिंहदेवः श्रीवत्सगोत्रः नरसिंहसूरेस्तनयः । तोतारम्बानाम्नी चास्य माता । देवराजसूरिःपितामहः । कौशिककुलश्रीभाष्यश्रीनिवासाचार्योऽस्य मातामहः । कौशिकः श्रीनिवासाचार्योऽस्य वेदान्तशास्त्रे गुरुः । आनन्ददायिन्यारम्भे----' आत्रेयवंशदुग्धाब्धी' त्यस्मिन् पद्ये अप्पलाचार्य इति निर्दिश्यते । स चाप्पलाचार्यः; सुराचार्येत्यादितदुत्तरार्धस्थाने—'अप्पलाचार्यवयं तं भजे विद्यागुरुं मम' इति पाठान्तरोपलम्भात् तदानुगुण्येन नृसिंहदेवस्य सामान्यशास्त्राध्यापक इति निश्चीयते ॥ ।
वेदान्ताचार्य इति सरान्तेषु मातुलनिर्देशात् कौशिक इति तद्गोत्रनिर्देशाच्च तत्वमुक्ताकलापादिकर्तुराचार्यस्य भागिनेयस्स्यादिति शङ्काऽप्यङ्कुरन्ती प्रबन्धादौ निगमान्तगुरुप्रबन्धव्याख्यातुः निगमान्त गुरोस्सुदूरपरभाविनो महाचार्यस्य तत्प्रबन्धानां वेदान्तविजयादीनां च निर्देशात् कौशिककुलश्रीभाष्यश्रीनिवासाचार्यस्य मातामहत्वोक्तया महाचार्यादप्यर्वाचीनस्य देवराजस्य पितामहत्वोक्तया च निवारणीया ।।
नसिंहदेवस्य पितामहत्वेनोक्तो देवराजश्च बिम्बतत्वप्रकाशिकाकर्ता देवराज एव स्यादिति तर्कयामः ॥
नृसिंहदेवविरचिताः प्रबन्धाश्च-१. परतत्वदीपिका, २. भेदधिक्कारन्यक्कारः, ३. मणिसारधिक्कारः, ४: सिद्धान्तनिर्णयः, ५. आनन्ददायिनी, ६ निक्षेपरक्षाव्याख्या नृसिंहराजीयाख्या, ७ शतदूषणीव्याख्या नृसिंहराजीयाख्या चेत्यष्टौ प्रसिध्यन्ति । श्रीमन्निगमान्तगुरुपबन्धानां सर्वेषामेवानेन व्याख्या विरचिता इत्यपि वदन्ति ॥
अस्य च नृसिंहदेवस्य कालविषये विशिष्य निर्णायकस्यास्माभिरनुपलम्भेऽपि मणिसारभेदधिक्कारादिग्रन्थेभ्योर्वाचीनतां निश्चिन्वन्तः