________________
सरः
द्रव्यसाधनम्
सर्वार्थसिद्धिः णाद्यधीनत्वात् तदुत्पाद्यबुद्धिभेदस्य तत्कारणत्वाभावाइयोराप परस्परप्रतीतिनिरपेक्षप्रमाणसिद्धत्वाच्च । एवमुपाधिभेदैरेकस्मिन्नेव ह्रस्वदीर्घत्वदर्शनान्यपि नेतव्यानीति । अत्रादिशब्देन पूर्ववत्संशयाद्यसंभवो नीलपीतशीतोष्णमधुराम्लादि भेदासंभवश्च गृह्यते । न हि नीलादिभेदेष्विन्द्रियभेदोपाधिकत्वं शक्यं वक्तुं; रूपादिभेदमिथ्यात्वे तदन्तःपातिनीलादिभेदोऽपि मरीचिकावीचिकान्यायेन मिथ्यैव स्यादिति चेन्न; आसिद्धस्यासिद्धेन दुस्साधत्वात् ।
आनन्ददायिनी परस्परजन्यजनकभावे परस्परप्रतीतिसापेक्षप्रतीतिकत्वे(वा)नान्योन्याश्रय इति भावः । एवमुपाधिभेदैरिति—यद्यप्येकमेव वस्तु हस्वदीर्घत्वबुद्धिविषयः ; न चात्र ह्रस्वदीर्घत्वे पारमाणे स्त; परिमाणद्वयाभावात् ; तथापि निरूपकभेदाधीनन्यूनाधिकभावः परिमाणेऽस्तीति तत्रापि विषयभेद एवेति भावः । पूर्ववदिति-ज्ञाताज्ञातभिदाभावादित्यर्थः । ग्राहकभेदेन रूपरसादिबुद्धिभेदोपपादनेऽपि ग्राहकभेदाभावान्नीलपीतादिधीभेदो न स्यादित्याह-नीलपीतेति । नीलपीतयोश्चक्षुरेकेन्द्रियग्राह्यत्वात् शीतोष्णयोस्त्वगेकग्राह्यत्वात् मधुराम्लयो रसनैकेन्द्रियग्राह्यत्वादिति भावः । ननु मरीचिकाया मिथ्यात्वे तदन्तःपातिवीचिकाया इव रूपादिभेदस्यैव मिथ्यात्वे तदन्तःपातिनीलादिभेदस्य सुतरां मिथ्यात्वं ; (तथा) ग्राहकभेदाभावेऽपि तद्भेदधीः कथञ्चित्समर्थनीयेति शङ्कते-रूपादिभेदमिथ्यात्व इति । असिद्धस्येति-मृगमरीचिकाया मिथ्यात्वं नाम किं स्वरूपस्य कुत्राप्यभावः ? स त्वसिद्धः। अत्र