________________
सेरः
ट्रेव्यसाधनम्
35
सर्वार्थसिद्धिः एकोपादानत्वे तु तदेव द्रव्यं । पृथिव्यादिदेशैक्यात्संघातत्वे तु तत्संघातस्यापि संघातान्तरापेक्षायां अनवस्था अन्योन्याश्रयो वा । अथ स्यात् ; गृहीतेन रूपेण पूर्वमेव स्पर्शोऽनुमितः तत्र दृष्टरूपानुमितमेव स्पृशामीत्येव प्रतिसन्धानमिति चेन्न द्वयोरेकाश्रयत्वग्रहणमन्तरण *व्याप्तिग्रहणासंभवेनानुमानासिद्धेः, दृष्टे रूपे स्पृष्टे च स्पर्शे भेदाग्रहात् दृष्टमेव स्पृशामीति बुद्धिशब्दाविति चेन्न; भेदेनैव तयोगुह्यमाणत्वात् रसादिष्वपि प्रसङ्गाच।
आनन्ददायिनी त्तरोत्तररूपस्पर्शयोरिति भावः । तत्संघातस्यति-भवत्पक्षे तस्यापि (रूपादि) क्षणत्वेन नानात्वात् तदैक्यं च संघातत्वेन वक्तव्यं तस्यापि संघातरूपत्वेन संघातरूपदेशापेक्षायां अनवस्था । तथाचपृथिव्याघेकदेशसंघातप्रयोजको दुर्लभ इति भावः। अन्योन्येतिपृथिवीशब्दवाच्यरूपरससंघातस्य एतत्संघातावच्छेदेन संघातत्वाङ्गीकारे इति भावः । ननु.गन्धानुमिते द्रव्ये प्रातमेव पश्यामीतिवद्दष्टरूपानुमितस्पर्शे दृष्टमेव स्पृशामीति प्रत्यभिज्ञेत्याशङ्कय उभयाश्रयस्यैकस्य त्वयाऽनजीकारेण साहचर्यगर्भव्याप्तिग्रहासंभवान्नानुमानप्रवृत्तिरिति परिहरति--- अथेति। भेदग्रहेऽपि भ्रमरूपप्रत्यभिज्ञाङ्गीकारे बाधकमाह-रसादिष्वपीति।
भावप्रकाशः 1* व्याप्तिंग्रहणासंभवेनेतिकार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमः . . . . .॥ इति वदतां भवतां मतेऽपि रूपरसयोधूमामयोरिव कार्यकारणभावविर
3*