________________
सौनाग, बैजि, सौभव, हर्यक्ष, चन्द्राचार्य, वसुरात प्रभृतीनां निबन्धाः आर्षप्रवन्धसंक्षेपणव्याकरणप्रमुखविपुलोपकारा ज्यालुप्तरूपतया प्राचीननिबन्धानूदिता यद्येतरभ्यपगम्येरन् सत्तया विषयेण गरिम्णा च ; तत्कथमपरत्रैवविध एव विश्वासदायेऽप्यवष्टम्भकमवगच्छद्भिरप्यविश्वासः क्रियते इति त एव विमृशन्तु ॥
एतत्प्रवन्धप्रवृत्तिः सत्स्वप्येतेषु प्राक्तनेषु प्रबन्धेषु न्यायविस्तरशास्त्रस्य विद्यास्थानेषु प्रसिद्धं परिगणनं प्रायस्सर्वेषां तत्र प्रथमपरिचयारम्भसंरम्भ प्रायः प्रधानार्थाविरोधिभूयःप्रमेयनिरूपणानि च प्रथमानानि अन्ततः तयाख्यातृभिः स्वमनीपिकया श्रुतिशिरोविरोधेनैव प्रचार्यमाणतां च ; विशिष्टाद्वैतसंप्रदायाचार्यैरपि प्राचीनैः स्वसिद्धान्तप्रमेयानां विप्रकीर्णतया तत्र तत्र निर्वाहेऽपि तन्निर्वाहस्यापर्याप्ततां ; प्रासङ्गिकमुख्यामुख्यनिरूपणीयभूयस्त्वं च परिचिन्तयताः श्रीमद्वेङ्कटनाथदेशिकमणिना स्वसिद्धान्तसिद्धांस्तत्तदर्थान् संग्रहेण प्रतिपादयितुं परसिद्धान्तसराणिपु प्रमाणादिबलाबलादिकं संक्षेपतश्शिक्षयितुं च निर्दोषपुष्कलार्थस्रग्धरागुम्भितः तत्वमुक्ताकलापनामा न्यबन्धि निबन्ध: । अयमंश: 'आवापोद्वापतस्म्युः कति कति' 'शिष्टा जीवेशतत्वप्रमितियुत' इति श्लोकाभ्यां ग्रन्थावतरणे स्वयमेवोक्तो गुरुणा ॥
____एवमप्यतिसंक्षिप्तग्रन्थभावग्रहणधारणदौष्कर्य पारचिन्तयन् सर्वार्थसिद्धिनाम्नी वृत्तिमपि सानुग्रहं स्वयमेव व्यधादाचार्यः । तदेतदाह प्रबन्धारम्भे स्वयमेव -----
ताराकल्प स्फुरति सुधियां तत्वमुक्ताकलापे दूराद्वत्त्या दुरधिगमतां पश्यतां सर्वसिद्धयै । नातिव्यासव्यतिकरवती नातिसंकोचखेदा वृत्तिस्सेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥ इति ।।