________________
२८
धर्मबिन्दुः सटौकः।
[सू० ६१
इति ॥ अतो विनिवृत्तेच्छाप्रपञ्चत्वाद्यदकामत्वं निरभिलापत्वं तस्मात् । यत्तत्वभावत्वमर्थान्तरनिरपेक्षत्वं तस्मान लोकान्तक्षेत्राप्तिः सिद्धिक्षेत्रावस्थानरूपा श्राप्तिरर्थान्तरेण सह संबन्धः ॥
5
एतदपि भावयति ।
औत्सक्यविहि लक्षणमस्या हानिश्च समयान्तरे ॥ ६१॥
इति ॥ श्रौत्सुक्यस्य वृद्धिः प्रकर्षः । हिर्यस्मात् । लक्षणं खरूपमस्या अर्थान्तरप्राप्तेः। हानिश्चौत्सुक्यस्यैव भ्रंशः समयान्तरे 10 प्राप्तिसमयादयेतनसमयलक्षणे ।
ननु किमिदमौत्सुक्यलक्षणं सिद्धे नास्तीत्यत आह ।
न चैतत्तस्य भगवत आकालं तथावस्थितेः ॥६२॥
इति ॥ न च नैवेतदर्थान्तरप्राप्तिलक्षणमनन्तरोनं तस्य सिद्धस्य भगवतः । श्राकालं सर्वमप्यागामिनं कालं याव16 तथावस्थितेः प्रथमसमयादारभ्य तथा तेनैव प्रथमसमयसंपन्ने केन निष्ठितार्थत्वलक्षणेन स्वरूपेणावस्थानात् ॥
एतदपि कुत इत्याह ।
कर्मक्षयाविशेषात् ॥ ६३॥
१Comits हि।