SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ८] ध्यमोऽध्यायः। २५१ ततश्च तेन विशड्यमानाप्रतिपातिना चरणेन सात्म्यं समानात्मता तत्मात्म्यं तेन.सहैकौभाव इत्यर्थः तेन भावो भवनं परिणतिरिति । भव्यप्रमोदहेतुता भव्यजनसंतोषकारित्वम्। ध्यानसुखयोगो ध्यानसुखस्याशेषसुखातिशायिनश्चित्तनिरोधलक्षणस्य योगः। अतिशयर्द्धिप्राप्तिरतिशयर्द्धरामोषध्या दिरूपायाः प्राप्तिः ॥ ततश्च कालेन । अपूर्वकरणं क्षपकश्रेणिर्मोहसागरोत्तारः केवलाभिव्यक्तिः परमसुखलाभः ॥८॥ इति ॥ अपूर्वाणां स्थितिघातरसघातगुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां 10 करणं यत्र तदपूर्वकरणमष्टमगुणस्थानकम् । ततश्च क्षपकस्य घातिकर्मप्रतिक्षयकारिणो यतेः श्रेणिर्मोहनौयादिप्रकृतिक्षयक्रमरूपा संपद्यते । क्षपकश्रेणिक्रमश्चायम् । दह परिपक्कसम्यग्दर्शनादिगुणो जीवश्वरमवय॑विरतदेशविरतप्रमत्ताप्रमत्तसंयतान्यतरगुणस्थानकस्थः प्रवृद्धतौवशुद्धध्यानाधौनमानसः क्षपक- 15 श्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमतश्चतरोऽनन्तानुबन्धिनः क्रोधादौन् युगपत्क्षपयितुमारभते । ततः सावशेषेष्वेतेषु मिथ्यात्वं क्षपयितुमुपक्रमते । ततस्तदवशेषे मिथ्यात्वे च होणे सम्यग्मिथ्यात्वं सम्यत्वं च क्रमेणोच्छिनत्ति । तदनन्तरमेवाबद्धायुष्कोऽनिवृत्तिकरणं नाम सकलमोहापोहैकसहं नवमगुण- 20 स्थानकमध्यारोहति । तत्र च तथैव प्रतिक्षणं विशड्यमानः १ BC R परमसुखभावः ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy