________________
६१८
ब्याश्रयमहाकाव्ये [भीमराजः ] नु शश्रन्थिय । जग्रन्थिय । ददम्भिय । इत्येव स्यात् ॥ अन्यस्त्ववित्परोक्षासेटुवोनित्यमेवमिच्छति नलोपं स्ववित्परोक्षायामेव । तेन श्रेथुः । ग्रेथुः । देभुः ॥ नलोपाभावेपि । श्रेन्थिय । प्रेन्थिय । देम्भिय । इत्येवेच्छति ॥
शशसतुः। शशसिथ । दददाते । वणतः । ववणिय । शशरतुः। उच्चिचयिथ । इत्यत्र "न शंस" [३०] इत्यादिना नैत् ॥ देहि चाच्छलमथो अवधेहि श्रूयतां व्यधित सिन्धुपतिर्यत् । दिग्य इष्टसुरकोशमपीप्यत्त्वजिघांसुसुभटान्प्रजिघाय ॥ ५३॥
५३. हे राजन्नच्छलं छलस्याभावं देहि वितर। यपि अत्यर्थं वितर वा । आवयोर्वदतो: स्खलितं न गणनीयमित्यर्थः । चः पूर्ववाक्यार्थापेक्षया समुच्चये । अथो अनन्तरमवधेह्यवधानं कुरु । तथा सिन्धुपतिर्यब्यधिताकृत यत्तदोनित्याभिसंबन्धात्तच्छ्यताम् । तदेवाहतुः । त्वजिघांसुसुभटांस्तव घातुकान्भटान्सिन्धुपतिर्दिग्ये भूरिद्रव्यादिदानेन पालितवान् । तथेष्टः समभावत्वेनाभिमतो यः सुरो मरुचण्डीशादिस्तस्य कोशं दिव्यजलमपीप्यत् । वयं भीमं हनिष्याम एवेति तद्वचसि स्वप्रत्ययोत्पादनायेष्टदेवतां संस्नप्य तान्नानजलं पायितवानित्यर्थः । तथा प्रजिघाय त्वत्पार्वे प्राहिणोत् ॥
१ ए धे भू. २ सी डी प्यत्त्वान्जि.
१ वी वो नित्य. २ ए मेवे । ते'. ३ डी । . ४ सीप । अन्थि०. ५ सी ५ । दम्मि'. ६ ए इत्यवे'. ७ ए णतु । व. ८ ए
तु । उ'. ९एई शश इ. १० ए स्खललि'. ११ सी डी न्धाच्छु. १२ सीसी देवतुः. १३ ए जिघासुः सुभ. १४ ए दिल्ये भू. १५ सीख को.