________________
है.३.१.१४३.)
पञ्चमः सर्गः।
-
नागावं धन्नुपदशं धन्नासन्नदशान् रथान् । राजदन्तैर्दशन्नोष्ठं प्रासमुल्लास्य सोक्षिपत् ॥ १२६ ॥ १२६. स लक्षः प्रासं कुन्तमुल्लास्य स्फोरयित्वाक्षिपन्मूलराजाभिमुखं प्रेरितवान् । कहिक्सन् । उपदशं नवसंख्यमेकादशसंख्यं वा नागाश्वं यन्महाबलत्वात्खण्डेयस्तथासन्नदशानवैकादश वा रथान् धं. स्तथा राजदन्तैर्दन्तानां राजभिरुपर्यधश्च मध्यदन्वैरोष्ठं कोपादशन् ।।
लिप्तवासितदिक्कीाथोष्णगुश्रीः षडुन्नतः।
कुन्तेन सर्वसारेणावधीलक्षं चुलुक्यराट् ।। १२७ ।। १२७. अथै चुलुक्यराड् मूलराज: सर्वेः सारः प्रधानलोहभेदो यत्र तेन सर्वसारलोहमयेन कुन्तेन लक्षमवधीत् । कीदृशः । महापुरुषत्वेन सल्लक्षणलक्षितत्वात्पट् शिरो हृत्स्कन्धौ पादौ चोन्नता उच्चा यस्य सः । तथोष्णगुश्री रवितुल्यतेजा अत एव कीर्त्या लिप्तवासिताः पूर्व वासिता आमोदिताः पश्चालिता व्याप्ता दिशो येन सः॥
धन्याख्यन्याः सुराः स्त्रीभिः पुष्पवृष्टिमथ व्यधुः । कृतप्रिये क्षणाचस्मिन्कृतोग्ररिपुनिग्रहे ॥ १२८॥ १२८. अथ सुराँस्तस्मिन्मूलराजे क्षणात्पुष्पवृष्टिं व्यधुः । कीदृशाः सन्तः । स्त्रीभिः स्वभार्याभिर्देवीभिः कृत्वा द्वे अन्ये येषां ते व्यन्यातिस्रोन्या येषां ते व्यन्याः । केचिद्देवीद्वयोपेताः केचिच्च देवीत्रययुक्ता इत्यर्थः । यतः कीदृशे । कृतप्रिये विहितसुराभीष्टे । एतदपि कुत १एसी न्यानन्याः. २ ए सी सुरा स्त्री.
-
१ ए सी प्रासकु. २ सी डयस्त'. ३ सी चूल'. ४ सी सर्वसा. ५ए सी डी सलक्ष. ६ वी योष्णुगु. ७ ए सीता अमो. ८सी 'राजे. ९ ए र्यादिदें. सी र्यादिदेवी . १० ए सी त्रयं यु.