________________
[है० ३.१.७९.]
पञ्चमः सर्गः।
३९९
भल्पान्मुक्ताः । इत्यत्र "तेनासत्त्वे" [७४] इति तत्पुरुषः ॥ "असत्वे उसेः" [३.२.१०] इत्यलुप् ॥ परशताः । परःसहस्र । इत्येतो "परःशतादि " [७५] इति साधू॥
अरिनृणाम् । इत्यत्र "पष्टी”[७६] इत्यादिना तत्पुरुषः॥ अयतादिति किम् । नृणामुजासितम् ॥ शेष इति किम् । राहूणां ज्ञानम् ॥
द्विगतिव्रश्चनो देवयाजकद्वेषिपूजकः ।
नन्नाभूद्रथगणको न पत्तिगणकोपि सः॥६५॥ ६५. स ग्राहारिनन्नरीन्हिसन्सन् रथगणको नाभूत्पत्तिगणकोपि नाभूत् । असंख्यारथान्पत्तींश्च व्यनाशयदित्यर्थः । कीदृक् । द्विगतित्रश्चनो द्विषां कर्तृणां गतिः संग्रामे विचरणं तस्याः कर्मणः सर्वथा प्राणहारित्वाद्रश्चनेश्छेदको रम्यादित्वादनद [५.३.१२६] । तथा देवानां याजका ऋषिद्विजादयस्तेषां द्वेषिणो दैत्यास्तेषां पूजकः ।। द्विगतिव्रश्चनः । इत्यन्त्र "कृति" [७७] इति तत्पुरुषः ॥ देवयाजक । द्वेषिपूजकः । इत्यत्र "याजकादिभिः" [७८] इति तत्पुरुषः। पचिगणकः । रथगणकः । इत्यत्र "पत्ति" [७९] इत्यादिना तत्पुरुषः॥
सर्वपश्चाद्भटांस्तर्जन्स नन्सर्वचिरं परान् ।
युचूतभञ्जिका चक्रेरीमानां दन्तलेखकः ॥६६॥ ६६. स पाहारियुदेव रणमेव हर्षेण कार्यत्वाञ्चूतभजिकाम्राणां भजयित्री काचित्क्रीडा तां चक्रे क्रीडामिव युधं हर्षाञ्चकारेत्यर्थः । कीहक्सन् । सर्वपश्चात्सर्वेषां मध्ये पश्चात्पश्चाद्भागे स्थितान्भटांस्वर्जन्साक्षेपवाक्यनिर्भर्सयन् । तथा सर्वेचिरं सर्वेषां मध्ये चिरं चिरकालं
१ वी शता । ५. २ बी नच्छेद. ३ बी ति । गतित्र. ४ डी कादेरिति. ५ बी युद्ध . ६ सी निर्ल्स'.